SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ सिद्धान्तकौमुदी [बिसर्गसन्धि ८॥३॥४१॥ इकारोकारोपधस्याऽप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । 'अप्रत्ययस्य' किम् । अग्निः करोति । वायुः करोति । मा यस्येति बहुव्रीहिः। कुप्वोरिति चानुवर्तते । तदाह-कारोकारेति। अप्रत्ययस्येति । प्रत्ययावयवभिन्नस्येत्यर्थः । प्रत्ययभिन्नस्य विसर्गस्येत्यर्थे तु कविभिः कृतमित्यत्रापि पत्वं स्यात् । तत्र भिसः प्रत्ययत्वेऽपि विसर्गमात्रस्य प्रत्ययत्वाभावात् । अत्र इदुयामप्रत्ययस्येत्येतावतैव इदुद्भयामुत्तरस्य विसर्गस्येत्यर्थस्य सिद्धत्वादुपधाग्रहणं न कर्तव्यमिति हयवरटसूत्रे भाष्ये स्थितम्-"उपधाग्रहणं न करिष्यते। इदुद्भयां तु 'परं विसर्जनीयं विशेषयिष्यामः" इति । निष्प्रत्यूह मिति । प्रत्यूहो विघ्नः तस्याभावः निष्प्रत्यूहम् । अर्थाभावे अव्ययीभावः। आविष्कृतमिति । प्रकाशे प्रादुराविः स्यादि. त्यमरः । दुष्कृतमिति । दुस् दुरिति प्रादौ पठितम् । तत्र प्रथमस्य सान्तस्य षत्वं निर्विवादम् । रेफान्तस्य तु इदुदुपधस्य सकारस्य यो विसर्जनीय इति हयवरट्सूत्र स्थभाष्यसम्मतपक्षान्तरे षत्वं न भवति, तत्र विसर्जनीयस्य सकारस्थानिकत्वाभावात् । अग्निः करोतीति । विसर्गस्य व्यपदेशिवगावेन प्रत्ययावयवत्वादिति भावः । न मातृशब्दात् पञ्चम्येकवचन सिः । ऋत उदिति ऋकारस्य अकारस्य च उकारः एकादेशः। रपरत्वम् । मातुर् स् इति स्थिते रात्सस्येति सलोपः। मातुः कृपेत्यत्रापि षत्वं स्यात् । उर इत्येकादेशस्य पूर्वान्तत्वेन अप्रत्ययतया तदवयवरेफस्थानिकविसर्गस्य प्रत्ययावयवत्वाभावात् । नच उ इत्यस्यैव एकादेशतया पूर्वान्तत्वेऽपि रेफस्य प्रत्ययावयवत्वमस्तीति वाच्यम् । उरणपर इत्यत्र आवन्तौ टकिता. वित्यतः अन्तग्रहणानुवृत्तिमङ्गीकृत्य रेफस्य एकादेशान्तताया भाष्ये सिद्धान्तितत्वात्। अत एव च 'रदाभ्यामिति सूत्रे 'थलि च सेटि' इति सूत्रे च 'गुणो भवति वृद्धिर्भवतीति रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिवर्तते' इति भाष्यम्, 'उः स्थाने अण प्रसज्यमान एव रपरो भवति, पूर्वभक्तश्च रेफः' इति कैयटश्च सङ्गच्छते। न च उर् इत्यस्य परादित्वे प्रत्ययावयवत्वमस्तीति वाच्यम् । मातृ अस् इत्यस्यां दशायां हि सकारसन्निधौ अकारस्य प्रत्ययत्वाभावेन तत्स्थाने भवन् उर, इत्यादेशः प्रत्ययत्वं न भजते । प्रत्ययत्वस्य समुदायनिवेशित्वात्। यस्तु कृते उरादेशे अवशिष्टः सकार: प्रत्ययसंज्ञकः, स तु लुप्त एव । अस्तु वा परादित्वेन उर, इत्यस्य प्रत्ययत्वम् । तथापि तस्य पूर्वान्तत्वात् अप्रत्ययत्वात् तद्विसर्गस्य षत्वमप्रत्यूहम् । न च अन्तवत्त्वे कर्तव्ये षत्वस्यासिद्धत्वात् न तत्रान्तवत्त्वप्रवृत्तिरिति वाच्यम् । पूर्वत्रासिद्धेन स्थानिवदित्युक्त्या तदितरातिदेशानां त्रिपाद्यामपि प्रवृत्त्यभ्यनुज्ञानात् । अत एव अमी क्षीरपेणेत्यत्र ईत्वणत्वे सिध्यतः। तत्र एकारे अदरशब्दसम्बन्धित्वस्य पे इत्यत्र एकाजुत्तरपदत्वस्य च अन्तवत्वाधीनत्वात् । तस्मात् उर, इत्यस्य पूर्वान्तत्वे मातुः For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy