________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता ।
तेन मपर्यन्ताच्छषेस्य 'अद्' इत्यस्य लोपः । स च परोऽप्यन्तरङ्गे अतो गुणे कृते प्रवर्तते । अदन्तत्वाभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अस्यहम् । (३८६ ) युवावो द्विवचने ७ | |२ || द्वयोरको युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ (३८७) प्रथमायाश्च द्विवचने भाषायाम् ||२८८ ॥ इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । युवाम् । आवाम् । 'ङि' इत्येव सुव
२६६
ताभ्यां स्वविषये लोपस्य बाधसम्भवात् । अतः शेषस्येत्यर्थ आस्थेयः । ततः किमित्यत आह-सेनेति । शेषस्य स्थाने इत्यर्थाश्रयणेनेत्यर्थः । मपर्यन्तादिति । मपर्यन्तस्येत्य - पकृष्टं पञ्चम्यन्ततया विपरिणम्यत इति भावः । एतच्च 'त्यदादीनामः' इति सूत्रे 'टिलोपष्टावभावार्थ: कर्तव्य इति स स्मृतः । अथवा शेषसप्तम्या शेषे लोपो विधीयते ।' इति वार्तिकतद्भाष्ययोः स्पष्टम् । न च सपर्यन्तस्य त्व इति अह इति वादेशे कृते शिष्टस्य अद् इत्यस्य मपर्यन्तात्परत्वं नास्तीति वाच्यम् त्वाहादेशयोः कृतयोः अदो लोपप्रवृत्तिवेलायां मपर्यन्ताच्छेषत्वाभावेऽपि त्वाह्नादेशप्रवृत्तेः पूर्वका लिकमपर्यन्तशेषत्वमादाय तदुपपत्तेः । नन्वस्तु मपर्यन्ताच्छेषस्य अदुशब्दस्य लोपः । तथापि त्व अद् अम्, अह अद् अम् इति स्थिते पररूपापेक्षया परत्वाददो लोपे अदन्तत्वात् टाप् दुर्वार इत्यत आह- - स चेति । शेषे लोप इत्यर्थः । अन्तरङ्गे इति । 'अतो गुणे' इत्यस्य वहिर्भूतविभक्त्यपेक्षलोपापेक्षया अन्तरङ्गत्वं बोध्यम् । श्रदन्तत्वाभावादिति · त्व अद्, अह अबू इत्यन्त्र पररूपे सति त्वद् अहद् इति स्थिते अदो लोपे त्व अह इत्यनयोरदन्तत्वाभावान्न टाबित्यर्थः । परमत्वमिति । 'हे प्रथमयोः' इत्यादीनामाङ्गत्वात् तदन्तविधिरिति भावः ।
1
4
श्रतित्वमिति । 'हे प्रथमयोः' इत्यादीनां गौणे अप्रवृत्तौ मानाभावादिति भावः । युष्मद् औ अस्मद् औ, इति स्थिते 'डे प्रथमयोः' इत्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते - युवावो द्विवचने । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । उक्तिर्वचनम् । द्वयोः वचनं द्विवचनम् । तत्र समथंयोरित्यर्थः । द्वित्वविशिष्टार्थवाचिनोरिति यावत् । नतु द्विवचनसञ्ज्ञके प्रत्यये परे इत्यर्थः, वचनग्रहणसामर्थ्यात् । अन्यथा द्वित्वे इत्येव श्रूयात् । 'अष्टन आ विभक्तौ' इत्यतो विभक्तावित्यनुवृत्तौ सत्यां द्वित्वे या विभक्तिस्तस्यां परतः इत्यर्थलाभान् । तदाह - द्वयोरुक्तावित्यादिना । द्वयोरुक्तावित्याश्रयणस्य फलमग्रे मूल एव स्पष्टीभवियति । युव अद्, आव अद् इति स्थिते 'शेषे लोपः' इति प्राप्ते । प्रथमायाश्च द्विवचनैः भाषायाम् ॥ 'अष्टन आ विभक्तौ' इत्यतः आग्रहणमनुवर्तते । 'युष्मदस्मदोरनादेशे' । इत्यतो युष्मदस्मदोः इति च । तदाह- इहेति । भाषायां प्रथमाद्विवचने परे
1
For Private and Personal Use Only