________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६२
सिद्धान्तकौमुदी
[अव्ययीभाव
'बहिरञ्चवः पञ्चम्या । २।१।१२॥ अपविष्णु संसार:-अप विष्णोः। परिविष्णुपरि विष्णोः । बहिर्वनम्-बहिर्वनात् । प्राग्वनम्-प्राग्वनात् । (६६७) आङ्म
र्यादाऽभिविध्याः ।।१।१३।। एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययी. भावः । आमुक्ति संसार:-आ मुक्तः । आबालं हरिभक्तिः-आ बालेभ्यः। (६६८) लक्षणेनाभिप्रती आभिमुख्य २।१।१४॥ आभिमुख्यद्योतकावभिप्रती चिह्नवा. चिना सह प्राग्वत् । अभ्यग्नि शलभाः पतन्ति, अग्निमभि । प्रत्यग्नि, अग्नि प्रति (६६६) अनुयत्समया २१॥१५॥ यं पदार्थ समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत
अपपरिबहिः। समस्यन्ते सोऽव्ययीमाव इति शेषः । अपविष्ण्विति । अत्र अफ इत्यव्ययं वर्जने । विष्णु वर्जयित्वा संसरणमित्यर्थः। अपविष्णोरिति । लौकिकविन. हवाक्यम् , समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाभावात्। 'अपपरी वर्जने' इति अपेत्यव्ययस्य कर्मप्रवचनीयत्वात् तद्योगे 'पञ्चम्यपापरिभिः' इति पञ्चमी। तदन्तेन अपेत्यस्याव्ययीभावसमासः, सुब्लुक् । अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः। समासात् सुबुत्पत्तिः । 'अव्ययादाप्सुपः' इति लुक् । एवं यथायथ. मग्रेऽपि ज्ञेयम् । : परिविष्ण्विति । अत्रापि परिवर्जने। पञ्चम्यादि पूर्ववत् । बहिर्वनम् बहिर्वनादिति । अस्मादेव ज्ञापकात् बहियोगे पञ्चमी । इतरत् पूर्ववत् । अदन्तत्वादम्भावः। प्राग्वनम् प्राग्वनादिति । अञ्चूत्तरपदयोगे पञ्चमी । आमर्यादाभिविध्योः । एतयोरिति । मर्यादाभिविष्योः विद्यमानादित्यर्थः । मर्यादायामुदाहरति- प्रामुक्तीति । मुक्तः प्रागित्यर्थः । अभिविधावुदाहरति-आबालमिति। बालानारभ्य इत्यर्थः । 'आङ्मर्यादावचने' इत्युभयत्रापि कर्मप्रवचनीयत्वात् 'पञ्चम्यपाइपरिभिः' इति पञ्च. मी। लक्षणेनाभि । लक्षणेनेत्येतद्वयाचष्टे-चिह्नवाचिनेति । प्राग्वदिति । समस्येते सोऽव्ययीभाव इत्यर्थः । अभ्यग्नि शलभाः पतन्तीति । शलभाः क्षुद्रजन्तुविशेषाः स्थूल. मक्षिकाः । अग्निमभीति । विग्रहोऽयम् । 'अभिरभागे' इति 'लक्षणेत्थम्' इति चाभिप्रत्योः कर्मप्रवचनीयत्वम् , अग्निज्ञाप्यं तदभिमुखं च शलभपतनमित्यर्थः ।।
अनुर्यत्समया-लक्षणेनेत्यनुवर्तते। यदिति समयायोगे 'अभितः परितः' इति द्वितीयान्तम् । सामान्ये नपुंसकम् । तदाह-यं पदार्थमिति अनुवनमिति । वनशब्दःअत्र वनसमीपदेशे लाक्षणिकः । वनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम् । तदाह-वनस्य समीपं गत इत्यर्थ इति । वस्तुतो लक्षणीभूतस्य वनस्य समीपं गत इति यावत् । 'अव्य. यं विभक्ति' इत्यादिना सिद्ध विभाषार्थमिदं सूत्रम्। ततश्च वनस्यानु इति लौकिकविग्रहवाक्यमुदाहार्यम् । नात्र कर्मप्रवचनीयसंज्ञा शङ्कया, वस्तुसत एवात्र लक्षण
For Private and Personal Use Only