________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७ ]
बालमनोरमासहिता ।
अधिकारोऽयम्। एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । 'सुप्सुपा' इति तु न नित्यसमासः । “अव्ययम्" इत्यादिसमास विधानाज्ज्ञापकात् । ( ६६६ ) अपपरिविपरीतं वृत्तमिति भावः । एकपरीति । एकेन विपरीतं वृत्तमित्यर्थः । एवं द्विपरि त्रिपरि इत्यादि ।
विभाषा । अधिकारोऽयमिति । ततश्च उत्तरत्र समासविधिषु एतदनुवर्तते इति लभ्यते । ननु 'प्राक्कडारात् समासः' इत्यत ऊर्ध्वं 'सह सुपा' इत्यतः प्रागेव कुतो विभाषाधिकारोन घृतं इत्यत आह-- एतत्सामर्थ्यादिति । मध्ये विभाषाधिकारपाठसामर्थ्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः । यद्यपीतः प्राचीनानां विकल्पे प्रमाणाभावादेव नित्यत्वं सिद्धम् । तथापि तस्यैव लिङ्गेन दृढीकरणमिति बोध्यम् । नन्वेवं सति 'सुसुपा' इत्यपि नित्यसमासः स्यात् । ततश्च पूर्व भूतः इति लौकिकविग्रहवाक्यमनुपपन्नं स्यात् । 'सुपा' इति विषये विस्पष्टं पटुः विस्पष्टपटुरिति विग्रहप्रदर्शनपरम् ' आकडारात्' इति सूत्रस्थभाष्यमपि विरुध्येतेत्यत आह-सुप्सुपेति तु न नित्यसमास इति । कुत इत्यत आह-अव्ययमित्यादीति । 'आकडारात्' इत्येव सिद्धे 'प्राक्कडारात्' इति प्राग्ग्रहणं समाससञ्ज्ञायाः अव्ययीभावादिसञ्ज्ञासमावेशार्थम् । अन्यथा एकाधिकारात् पर्यायः स्यादिति 'आकडारात्' इति सूत्रे भाष्ये स्थितम् । तत्र 'अव्ययं विभक्ति' इत्याद्यव्ययीभावादिविधिषु 'सुप्सुपा' इति समासमनूद्य नाव्ययीभावादिसञ्ज्ञा विधेयाः । 'उपपदमतिङ्' 'कर्तृकरणे कृता बहुलम्' 'आख्यातमाख्यातेन क्रियासातत्ये' इत्यादौ सुबन्तस्य सुबन्तेन समासस्य उद्देश्यस्याप्रसिद्धेः । अतस्तेषु समासविधानस्यावश्यकत्वात् अर्थाधिकारानुरोधात् सर्वत्र समास इत्यनुवृत्तं विधेयसमर्पक मित्या स्थेयम् । तत्र 'सुप्पा' इत्येव सिद्धे 'अव्ययं विभक्ति' इत्याद्यव्ययीभावादिविधिषु समाससञ्ज्ञाविधानं व्यर्थ सत् ततः प्राचीनविधेः वैकल्पिकत्वं ज्ञापयति । न चाव्ययीभावादिविधिषु समासविध्यभावे अव्ययादीनां समासशास्त्रे प्रथमानिर्दिष्टत्वाभावेन उपसर्जनत्वाभावात् पूर्वनिपातनियमो न स्यात् । तदर्थमव्ययीभावादिविधिषु समासविधानं चरितार्थमिति वाच्यम्, 'प्रथमानिर्दिटम्' इति सूत्रे समास इत्यस्य समासत्वव्याप्याव्ययीभावादिविधायके शास्त्रे इत्यर्थाभ्युपगमेन अव्ययादीनाम् उपसजनत्वसिद्धेर्वक्तुं शक्यत्वात् । तस्मादव्ययीभावादिविधिषु समासविधानं 'सुप्सुपा' इति समासस्य वैकल्पिकत्वं ज्ञापयतीति स्थितम् । 'आकडारात्' इति सूत्रे 'सुप्सुपा' इति समासविषये विस्पष्टं पटुः विस्पष्टपटुः इति विग्रहप्रदर्शनपर भाष्यं चेह लिङ्गमित्यलं बहुना । एवं च 'इवेन समासः' इत्यादि वैकल्पिकमिति सिद्धम् । यद्यपि नित्यसमासाधिकारे 'कुगति' इत्यत्रापि इवेनेति वार्तिकं पठितम् । तथापि 'सुप्सुपा' इत्यत्र पठितमेव तत्रापि स्मार्यत इति कैयटः 1
For Private and Personal Use Only
४६१