________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
rammar
नियमार्थ सूत्रम् । पूर्वेषुकामशमी। सप्तर्षयः । नेह, उत्तराः वृक्षाः। पञ्च ब्राह्मणाः । (७२८) तद्धितार्थोत्तरपदसमाहारे च २।१५१॥ तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्सङ्घये प्राग्वद्वा । पूवस्या शालायां भवःपौर्वशालः । समासे कृते 'दिक्पूर्वपदादसंज्ञायां अः' (स १३२८) इति नः। 'सर्वनानो वृत्तिमात्रे पुंवद्भावः' (बा १३७६)। आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीही कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शालाशब्दे आकार उदात्तः। असज्ञात्वात् । त्रयाणां लोकानां समाहार इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासे तु 'द्विगोः' इति डीप्रसङ्गः । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीलि. ङ्गत्वात् । पात्रादित्वात् न स्त्रीत्वमित्यभ्युपगमे 'यदि त्रिलोकीगणनापरा स्यात्' इत्यादिप्रयोगाः न युज्येरनिति चेत् , सत्यम् । लोकशब्दोऽत्र लोकसमुदायपरः। व्यवयवो लोकस्त्रिलोक इति मध्यमपदलोपी समासः। एतच्च 'द्विगोलुंगनपत्ये' इति सूत्रे भाष्ये स्पष्टम् । षोडशपदार्थानामित्यत्र तु षोडशसङ्ख्याकाः पदार्था इति मध्यमपदलोपी समास इत्यलम् । पूर्वेषुकामशमीति । पूर्वशब्दस्य इषुकामशमीशब्देन समासः । देशविशेषस्य सज्ञेयम् । सप्तर्षय इति । मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां सज्ञेयम् । नेहेति । असज्ञात्वादिति भावः । ___ तद्धितार्थ । एकापि सप्तमी विषयभेदात् भिद्यते। तत्र तद्धितार्थत्यंशे वैषयिका. धारत्वे वर्तते। उत्तरपदेत्यंशे सामीपिकमाधारत्वमादाय परसप्तमीपर्यवस्यति । समाहारांशे तु वाच्यतया आधारत्वे सप्तमी । पूर्वसूत्रात् दिक्सङ्ख्ये इत्यनुवर्तते । तदा ह-तद्धितार्थे विषये इति । तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः । तद्धिते भविष्यतीति यावत् । प्राग्वदिति। समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । तद्धिताथें दिक्समासमुदाहरति-पूर्वस्यामिति । समासे कृते इति । पूर्वस्यां शालायां भव इति विग्रहे 'तद्धितार्थ' इति समासे कृते 'दिक्पूर्वपदात्' इति अप्रत्यये कृते 'य. स्येति च, इत्याकारलोपे आदिवृद्धिरिति भावः । सर्वनाम्न इति । मात्रशब्दः कात्स्ने। समासतद्धितादिवृत्तिगतसर्वनाम्नां पुंवत्त्वमिति तदर्थः । यदि तु तद्धिते परे दिक्स
ङ्ख्ये समस्येते इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः, समासे कृते दिक्पूर्वपदत्वा. तद्धित इत्यन्योन्याश्रयप्रसङ्गः । तद्धिता) वाच्ये दिक्सङ्ख्ये समस्येते इति तु न व्याख्यातम् । तद्धितार्थस्य तद्धितवाच्यतया समासार्थत्वाभावात् । अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम् । आपरशाल इति । अपरस्यां शालायां भव इति विग्रहः । समासादि पौर्वशालवत् । उत्तरपदे परतो दिक्समासमुदाहरति-पूर्वा शाला प्रिया यस्येत्यादिना । ननु बहुव्रीहिसमासे कृते सुपां लुप्तत्वात् उत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह-तेन शालाशब्दे आकार उदात्त इति । अवान्तरतत्पुरुषे
For Private and Personal Use Only