________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
१७
अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसज्ञायामनुपयुक्ताः, तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः। यरलवा अन्तःस्थाः । शषसहा ऊष्माणः । अचः स्वराः । कप इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः। 'ऋलवर्णयोमिथः सावर्ण्य वाच्यम्' (वा १५०)।
-
-
-
चष्टे-अन्येषां तु संवारो नादो घोषश्चेति । अयुग्मा वर्गयमगा इत्येतद्वयाचष्टेवर्गाणां प्रथमतृतीयपश्चमाः प्रथमतृतीययमाविति । पञ्चमानां यमाभावादिति भावः । यणश्चाल्पासवः स्मृता इत्येतद्वयाचष्टे-यरलवाश्वाल्पप्राणा इति । ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम् । अतो न्यूनतेत्याशक्य तदपि परिशेषादुक्तप्रायमित्याह-अन्ये महाप्राणा इति । वर्गाणां द्वितीयचतुर्थाः द्वितीयचतुर्थयमाः शषसहाश्च अन्यशब्देन विवक्षिताः । यमानां यत्नविशेषकथनं वस्तुस्थि. तिकथनमात्रम् । अत्र शास्त्रे तदुपयोगाभावात् । तदयमत्र मध्यसिद्धान्तकौमुद्यां वर. दराजीयः संग्रह:-'खरो विवाराः श्वासाः अघोषाश्च । हशः संवारा नादाः घोषाश्च । वर्गाणां प्रथमतृतीयपञ्चमाः यणश्चाल्पप्राणाः । वर्गाणां द्वितीयचतुर्थाः शलश्च महाप्राणा: इति । नन्विह बाह्ययत्नप्रपञ्चन व्यर्थम् , तुल्यास्यसूत्रे प्रयत्नशब्दस्य आभ्यन्तरयत्नमानपरत्वादित्याशङ्कते-बाह्यप्रयत्नाश्चेति । यद्यपीति समुदायः शङ्काद्योतकः । परिहरति-तथापीति । सवर्णसज्ञाप्रस्तावे बाह्ययत्नानामुपयोगाभावे. ऽपि "स्थानेऽन्तरतमः इति वक्ष्यमाणान्तरतम्यविचारे तेषामुपयोगसत्त्वान्न वैयर्थ्यम् । इह तत्प्रपञ्चनं तुल्यास्यसूत्रे आभ्यन्तरत्वविशेषणव्यावय॑त्वेनोपस्थितत्वात्प्रासङ्गिकमिति भावः । उदात्तादियत्नस्य तु अधर्मत्वस्य प्रसिद्धत्वादिह न तद्वयवस्थोक्ता । अथ स्पृष्टं प्रयतनं स्पर्शानामित्यादिसन्दमें उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे-कादय इत्यादिना । कः आदिः येषां ते कादयः। मः अवसाने येषां ते मावसानाः। इदं च लोकप्रसिद्धपाठापेक्षम्। इति स्थानयत्नविवेक इति । स्थानयत्नविवेचनं समाप्तमित्यर्थः । स्थानप्रयत्नेति प्रशब्दपाठस्तु चिन्त्यः, अविवक्षितार्थो वा प्रशब्दः । __ ऋलवर्णयोमर्धदन्तात्मकभिन्नस्थानकत्वात् सवर्णसञ्ज्ञायामप्राप्तायाम् 'ऋकारलकारयोः सवर्णविधिः' इति तद्विधायकं वार्तिकम् अर्थतः संगृह्य पठति-लवर्णयोमिथः । आ च आ च रलौ शब्दस्य शब्दस्य च आ इति प्रथमैकवचनम् ।
ल औ इति स्थितेः लकारस्य 'ऋतो कि सर्वनामस्थानयोः' इति गुणः, अकारः, 'उरण रपरः' इति लपरत्वम्, ऋकारस्य यणादेशो रेफः। रलौ च तौ वर्णी च ऋलवर्णी।
२ बा०
For Private and Personal Use Only