________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०२
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः । ( ५२५) संहितशफलक्षणवामादेश्व ४|१|७० ॥ अनौपम्यार्थं सूत्रम् | संहितोरूः । सैव शफोरूः । शफी खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआवच् । लक्षणोरूः । वामोरूः । ‘सहितसद्दाभ्यां चेति वक्तव्यम्' ( वा २५०३ ) । हितेन सह सहितौ
I
1
पदेत्यनेन पूर्वपदमाक्षिप्तम्, औपम्ये इति तत्रान्वेति उपमीयते अनयेत्युपमा उपमानम्, उपमैव औपम्यं स्वार्थे ष्यञ् । तदाह - उपमानवाचीति । करभोरूरिति । करभाविव ऊरू यस्या इति विग्रह: । 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः । इत्यमरः । करभोरुत्वस्याजातित्वादप्राप्तौ वचनम्, ऊर्वाकृतेः करभसदृशपुरुषोरुसाधारणत्वेन करभसादृश्यघटितकरभोरुत्वस्य आकृतिग्राह्यत्वाभावात् असर्वलिङ्गत्वाद्यभावाच्च । उपमानवाचीति किम् - वृत्तोरुः करभोपमोरुरित्यादौ नोड्, करभशब्दस्य करभसदृशे अवृत्त्या उपमानवाचित्वाभावात् । संहितशफ संहित शफ लक्षण वाम एतत्पूर्वपदादप्यूरूत्तरपदादूङ् स्यादित्यर्थः । पूर्वेणैव सिद्धे किमर्थमित्यत आह—अनौपम्यार्थमिति । संहितोरूरिति । संहितौ संश्लिष्टौ ऊरू यस्या इति विग्रह: सैव शफोरूरिति । संहितोरुरेव शफोरूरित्यनेनोच्यत इत्यर्थः । शफशब्दं विवृगोति-- शफौ खुराविति । यद्यपि 'शर्फ क्लीबे खुरः पुमान्' इत्यमरः । तथापि 'शफ खुरे गवादीनाम्' इति चन्द्रकोशात् पुंस्त्वमिति भावः । ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह-ताविवेति । यतः शफाविव, अत ऊरू शफशब्देनोच्येते इत्यर्थः । कुतस्तत्सादृश्यमित्यत आह - संश्लिष्टत्वादिति । तर्युपमानवाचि पूर्व पदत्वादेव सिद्धमित्यत आह- उपचारादिति । शफवत् वास्तवं संश्लिष्टत्वमवलम्ब्य शफत्वस्य आरोपादित्यर्थः । एवं च शफशब्दात् तत्सादृश्याप्रतीतेर्नोक्तर्दोष इति भावः । लक्षणोरूरिति । लक्षणौ ऊरू यस्या इति विग्रहः । ननु मार्दवादिगुणपर्यायस्य लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह- लक्षणशब्दादिति । लक्षणमनयोरस्तीति विग्रहे लक्षणशब्दात् 'अर्शआदिभ्योऽच्' इत्यच्प्रत्यय इत्यर्थः । तथाच लक्षणयुक्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः । वामोरूरिति । वामौ सुन्दरौ ऊरू यस्या इति विग्रहः । 'वामौ वल्गुप्रतीपौ द्वौ' इत्यमरः ।
सहितेति । सहित सह आभ्यां परः यः ऊरुशब्दः तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः । ननु संहितग्रहणेनैव एकदेशविकृतन्यायेन सिखे पुनः संहितग्रहणं व्यर्थमित्यत आह-हितेनेति । हितेन सहेति विग्रहे 'तेन सह' इति बहुव्रीहौ 'वोपसर्जनस्य' इति सभावे सहितशब्द इत्यर्थः । ननु सहशब्दस्य विद्यमानवचनत्वे सहोरू
For Private and Personal Use Only