________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५२६
कतरकतमौ जातिपरिप्रश्ने २२१६३॥ कतरकठः । कतमकलापः। 'गोत्रं च चरणः सह' इति जातित्वम् । (७४३) कि क्षेपे २१॥६४॥ कुस्सितो राजा किंराजा, यो न रक्षति । (७४४) पोटायुवतिस्तोककतिपय गृष्टिधेनुवशा. वेहवाकयणीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः २२११६५(sey) तत्पु. रुषः समानाधिकरणः कर्मधारयः १२।४२॥ (७४६) पुंषत्कर्मधारय
कतरकतमौ । जातिपरिप्रश्ने गम्ये कतरकतमौ समानाधिकरणेन समस्येते इत्यर्थः । कतरकठ इति । अनयोः कः कठ इत्यर्थः । 'किंयत्तदोनिर्धारणे द्वयोरेकस्य डतरच' कोन प्रोक्तमधीते कठा। वैशम्पायनान्तेवासित्वात् प्रोक्त णिनिः । 'कठचरकाल्लुक्' इति तस्य लुक् । ततः 'तदधीते' इत्यणः 'प्रोक्ताल्लुक्' इति लुक् । कतमकलाप इति । एषां कः कलाप इति विग्रहः । कलापिना प्रोक्तमधीते कलापः। 'कलापिनोऽण् 'सब्रह्म. चारि' इति टिलोपः 'वा बहूनां जातिपरिप्रश्ने डतमच्'। ननु घटत्वादिवत् कठशाखाध्येतृत्वादिकं न जातिः। 'आकृतिग्रहणा जातिः' इति लक्षणस्य लिङ्गानां च न सर्वभाव , 'सकदाख्यातनिर्माह्या' इति लक्षणस्य च तत्राप्रवृत्तेरित्यत आह-गोत्रं चेति । अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनात् कतरार्थमेव जातिपरिप्रश्नग्रहणम् । एवञ्च अनयोः कतरो देवदत्त इत्यत्र न भवति समासः । एषां कतमो देवदत्तः इति तु नास्त्येव । जातिपरिप्रश्न एव डतमचो विधानात् । वस्तुतस्तु इतरडतमविधौ द्वयोरिति बहूनामिति जातिपरिप्रश्ने इति प्रत्याख्यातं भाष्ये । एवञ्च कतम एषां देवदत्त इत्यप्यस्ति । तत्र समासाभावाय जातिपरिप्रश्नग्रहणम् इति शब्देन्द. शेखरे स्थितम् । किं क्षेपे । क्षेपो निन्दा । तत्र गम्ये किमित्यव्ययं समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । कुत्सितो राजेति । अस्वपदविग्रहोऽयम् । किम्पदस्थाने कुत्सितपदमिति ज्ञेयम् , वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहासम्भवात् । किंराजेति । 'राजाहस्सखिभ्यः' इति टच तु न, 'किमः क्षेपे' इति निषेधात् ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह-यो न रक्षतीति। स किंराजेत्यन्वयः ।
पोटायुवति । पोटादिभिः समानाधिकरणैर्जातिवाचक समस्यते स तत्पुरुष इत्यर्थः । अथ कर्मधारयकार्य वक्ष्यन् कर्मधारयसञ्ज्ञामाह-तत्पुरुषः समान। समानम् एकमधिकरणं वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधि. करणः, मत्वर्थीयः अर्शआधच्। समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारयसज्ञको भवतीत्यर्थः। तत्पुरुषाधिकारे इयं सज्ञा न कृता, तथा सत्येकसज्ञाधि कारात् कर्मधारयसज्ञया तत्पुरुषसज्ञा बाध्येतेत्याहुः। पुंवत्कर्मधारय । स्त्रियाः युवदाषितपुंस्कादनडिति वर्तते । एकापि सप्तमी विषयभेदाद्भियते । कर्मधारयांशे अधि.
बा० ३४
For Private and Personal Use Only