________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૂર
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
क्रुष्टाद्यर्थे तृतीयया' ( वा १३३७ ) अव क्रुष्टः कोकिलया अवकोकिलः । ' पयोदयो ग्लानाद्यर्थे चतुर्थ्या' ( वा १३३८ ) । परि ग्लानोऽध्ययनाय पर्यध्ययनः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या ' ( वा १३३९ ) निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । 'कर्मप्रवचनीयान प्रतिषेधः' ( वा १३३९ ) वृक्षं प्रति । ( ७८१) तत्रोपपदं सप्तमीस्थम् ३|१|8२ ॥ सप्तन्यन्ते पदे 'कर्मणि' ( सू २९१३ ) इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात् । तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात् । ( ७८२) उपपदमतिङ २२२२१६ ॥ उपपदं सुबन्तं इत्यर्थः । अवकोकिल इति । कोकिलया आहूत इत्यर्थः । पर्यादय इति । ग्लानाद्यर्थे पर्यादयः समस्यन्त इत्यर्थः । अध्ययनाय अध्ययनार्थ, तेन श्रान्त इत्यर्थः । परिरत्र ग्लाने वर्तते । निरादय इति । क्रान्ताद्यर्थे निरादयः समस्यन्त इत्यर्थः । निष्कौशाम्त्रिरिति । अतिमालवत् ह्रस्वः । निरित्यव्ययं निर्गमने वर्तते । कर्मप्रवचनीयानां प्रतिषेध इति । वार्तिकमेतत् । वृक्षं प्रतीति । 'लक्षणेत्थम्' इति कर्मप्रवचनीयत्वान्न प्रादिस - मासः । इदं तु वार्तिकं भाष्ये प्रत्याख्यातम् ।
अथोपपदसमासं वक्ष्यन्नुपपदसञ्ज्ञामाह - तत्रोपपदं सप्तमीस्थम् । अधिकारोऽयम् । सप्तमीति तदन्तग्रहणम् । सप्तम्यन्ते पदे वाच्यवाचकभावसम्बन्धेन तिष्ठतीति सप्तमोस्थम् । सप्तम्यन्तवाच्यमिति यावत् । धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम् । ततश्च तदधिकारान्तर्गतेषु' 'कर्मण्यण' इत्यादिसूत्रेषु वत्सप्तम्यन्तमुच्चारितं तदेव इह विवक्षितम् । एवञ्च तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भीति पर्यवसन्नम् । कुम्भादेश्व उपपदसंज्ञायां प्रयोजनाभावात्तद्वाचकपदेषु विश्राम्यति । तथाच धातोरित्यधिकारान्तर्गते कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तं कर्म - णीत्यादि तद्वाच्यं यत् कुम्भादि तद्वाचकं पदम् उपपदसञ्ज्ञं स्यादित्यधिकृतं वेदितव्यमित्यर्थः फलति । तदाह - सप्तम्यन्ते पद इत्यादिना । तत्र 'धातोः कर्मणः समानकर्तृकात्' इति, 'धातोरेकाचों हलादे:' इति 'धातोः" इति च क्रमेण त्रयो धात्वधि - काराः । तत्र प्रत्यासत्त्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणात् 'धातोरेकाचः ' इत्यधिकारे 'चिल लुङि इत्यत्र सप्तम्यन्तं न गृह्यते । अन्यथा कर्मणीत्यादाविव: लुङन्ते अभूदित्यादावुपपदे धातोः चिलरित्यर्थः स्यात् । ननु तत्रेति व्यर्थम्, तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसम्भवादित्याशङ्कयाह -- तस्मिंश्च सत्येव वक्ष्यमाणःप्रत्ययः स्यादिति । अयमाशयः -- तत्रेति भिन्नं वाक्यं क्रमव्यत्यासेन योज्यम् । सप्त. मीस्थमुपपदसञ्ज्ञं स्यात् । तत्र, तस्मिन्सति इति चाधिकृतं वेदितव्यमिति । तथा-चोपपदे सति वक्ष्यमाणः प्रत्ययः स्यादिति तत्रेत्यस्यार्थः फलति । तथाच 'कर्मण्यण्"
।
For Private and Personal Use Only