________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता ।
પૂર
समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिक् किम् । मा भवान्भूत् । 'माछि लु' ( १२१९ ) इति सप्तमीनिर्देशान्माउपपदम् । अतिमहणं ज्ञाप. इत्यत्र इदं सूत्रमुपस्थितम् । कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते । सप्तमीनिर्देशस्तु उपपदसज्ञाप्रवृत्त्यर्थः । धातोरण स्यात् कर्तर्य), कर्मवाचकं तु कुम्भादिपदम् उपपदसझं प्रत्येतव्यम् , तस्मिन्नुपपदे सत्येव अण् स्यादिति फलति । तस्मिन् सत्येवाण स्यादित्यभावे तु कार इत्येवं केवलादपि धातोः कर्तयर्थे अण्प्र. त्ययः स्यात् । कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसञ्ज्ञां प्रापस्य 'उपपदमति इति नित्यसमाससम्पादनेन कुम्भ इत्यस्य कार इत्यस्य च साधुस्वप्रापणार्थतया चरितार्थः । तस्मिन्नुपपदे सत्येवाण स्यादित्युक्ते तु कुम्भाशुपपदस्य मण्प्रत्ययोत्पत्तौ निमित्तत्वावगमान केवलादण्प्रत्ययः, उपपदसज्ञायाः प्रत्ययविधि. सन्नियोगशिष्टत्वलाभात् । 'धः कर्मणि ष्ट्रन' 'भुवो भावे इत्यादौ सप्तम्यन्तमर्थनिर्दे. शपरमेव, व्याख्यानादिति भाष्यकैयटादिषु स्पष्टम् ।। ___ उपपदमतिङ् । सुबन्तमिति । 'सुबामन्त्रिते' इत्यतस्तदनुवृत्तेरिति भावः । समर्थेनेति । प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः । अतिङन्तश्चायं समास इति । सूत्रे तिङिति तदन्तग्रहणमिति भावः । समासः तिडन्तघटितो न भवतीत्यर्थः । अतिङ् किम् ? कारको व्रजति। 'तुमुन्ण्वुलौ क्रियायां क्रियायाम्' इति जता. वुपपदे फुलो ण्वुल् , अकादेशः । उपपदं समथेनेत्येतावत्युक्ते इहाप्युपपदसमासः स्यात्। अतः अतिङ्ग्रहणम् । नचैवं सुबित्यनुवृत्तः प्रयोजनाभाव इति वाच्यम् , चर्मकार इत्यत्र नलोपार्थकत्वात् । उपपदमतिङन्तं समर्थन समस्यत इति व्याख्याने तु सुबिति नानुवतेत । ततश्च चर्मकार इत्यत्र नलोपो न स्यादिति भावः। कुम्भमिति । कुम्भं करोतीत्यर्थे 'कर्मण्यम्' इति कर्मीभूतकुम्भवाचकपदे उपपदे कृधातोः कर्तरि अण्प्रत्यये अचो णिति' इति वृद्धौ परत्वे कारशब्दः । तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः । ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम् , अतिङन्तः समास इत्युक्तत्वादित्यत माह-कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यमिति । लोके प्रयोगा. नहत्वमलौकिकत्वम् । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या अलौकिकविग्रहवाक्य एव समासप्रवृत्तिः। कुम्भं करोतीति तदर्थप्रदर्शनमात्रमिति भावः । कुम्भ अम् कार इत्यपपाठः, कृयोगे षष्ठया विधानात् । मा भवान् भूदिति। अत्र भूदिति तिङन्तेन माङः समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः। भवानिति पदं तु समासाभावसूचनाय मध्ये प्रयुक्तम् । ननु माङः तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वं तु अदृष्टं, येन तस्य उपपदत्वात् समासः प्रसज्यत इत्यत आह-माडिति । ननु अति
For Private and Personal Use Only