________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૃષ્ઠ
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
यति सुपा इत्येतदेहानुवर्तत इति । | पूर्वसूत्रेऽपि गतिप्रहणं पृथक्कृत्यातिच्हणं तत्रापकृष्यते । सुपा इति च निवृत्तम् । तथा च 'गतिकारकोपपदानां वृद्धिः सह समासवचनं प्राक्सुबुत्पत्तेः' ( प ७६ ) इति सिद्धम् । व्याघ्री । अश्वक्रीती । कच्छपी ।
ङ्ग्रहणं व्यर्थ, मा भवान् भूदित्यत्र सुपेत्यनुवृत्त्यैव समासनिवृत्तिसम्भवादित्यत आह - भतिङ्ग्रहणमिति । एवञ्च उपपदम् अलुबन्तेन समस्यत इति फलितम् । गतिसमासोऽप्यसुबन्तेनेत्याह - पूर्वसूत्र इति । उत्तरसूत्रात्पूर्वसूत्रे अनुवृत्तिरपकर्ष: । 'कुप्रादयः' इति 'गति' इति च योगो विभज्यते । कुप्रादयः सुबन्तेन समस्यन्ते । गतिस्तु समर्थेन समस्यते । अतिङन्तश्च समास इति व्याख्येयमिति यावत् । ततः किमि - त्यत आह- तथा चेति । गतिकारकोपपदानां कृदन्तैः सह सुबुत्पत्तेः प्राक् समासो वक्तव्य इति प्राचीनव्याकरणोक्तं सिद्धं भवतीत्यर्थः । यद्यप्युक्तरीत्या गस्युपपदयोरेव लाभ:, तथाप्येकदेशानुमतिद्वारा प्राचीनपरिभाषेयं सिध्यति ।
I
अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति- व्याघ्रीति । व्याजिघ्रतीति व्याघ्रः । व्यादपूर्वात् घ्राधातोः 'आतश्चोपसर्गे' इति कः, 'आतो लोप इटि च' इत्यारलोपः । 'पाघ्राध्माधेट्टशरशः' इति तु न भवति, 'जिघ्रतेः संज्ञायां नेति वाच्यम्' इति निषेधात् । आहो घशब्देन गतिसमासः । आघ्रशब्देन वेः गतिसमासः । तत्र यदि शब्दस्य सुबन्तत्वमपेक्ष्येत, तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिः स्यात्, स्वार्थद्रव्यलिङ्गसन्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्य 'कुत्सिते' इति सूत्रस्थभाष्यदर्शितस्य 'हयाप्प्रातिपदिकात' इत्यत्रास्माभिः प्रपञ्चितत्वात् । ततश्च सुबुत्पत्तये लिङ्गसंख्याकारकं क्रमेण अपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति अदन्तत्वात् टाप् स्यात् । न तु जातिलक्षणङीप्, घशब्दमात्रस्य जातिवाचित्वाभावात् । ततश्च प्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्य अदन्तत्वाभावात् जातिलक्षणो ङीष् न स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिद्धम्, तथापि गतित्वसम्भवमात्रेणेदमित्याहुः । वस्तुतस्तु आङो घ्राशब्देन उपपदसमासः, 'आतश्चोपसमें ' इति सप्तमीनिर्देशात् । वेस्तु आघ्रशब्देन गतिसमास इति । तदंशे गतिसमासोदाहरणमित्याहुः । अथ कारकसमासमुदाहरति-भश्वक्रीतीति । अश्वेन क्रीतेति विग्रहे 'कर्तृकरणे कृता' इति समासः । ' क्रीतात्करणपूर्वात्' इति ङीष् । सुबन्तेन समासे तु उक्तरीत्या पूर्व टापि अदन्तत्वाभावात् ङीष् न स्यादिति भावः । उपपदसमासमुदाहरतिकच्छपीति । कच्छः तीरं, तेन तस्मिन् वा पित्रतीति कच्छपी । 'सुपि स्थः' इत्यत्र 'सुपि' इति योगविभागात्कः, उपपदसमासः । तस्य सुबन्तापेक्षायाम् उक्तरीत्या टावेव स्यात्, न तु जातिलक्षणङीषिति भावः ।
For Private and Personal Use Only