________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४००
सिद्धान्तकौमुदी
[कारक
शेषणमिति विवेकः । वचनं सङ्ख्या । एकः। द्वौ। बहवः। इहोक्तार्थत्वाद्विमक्तेरप्राप्तौ वचनम् । (५३३) सम्बोधने च ॥३॥४७॥ इह प्रथमा स्यात् । हे राम ।
(५३४) कारके १४॥२३॥ इत्यधिकृत । (५३५) कर्तुरीप्सिततमं सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाख्यप. रिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात् । परिमाणसामान्यं न प्रतीयेत । तदर्थमिह परिमाणग्रहणमित्यर्थः । ____वचनं सख्येति। पूर्वाचार्येस्तथा संज्ञाकरणादिति भावः। तथाच सङ्ख्यामात्रे प्रथमेति लभ्यते । नच लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये इतिवत् सङ्ख्यामात्राधिक्ये इति कुतो न व्याख्यातमिति वाच्यम् . केवललिङ्गपरिमाणयोः क्वाप्युपस्थित्य. भावेन तथा व्याख्यानेऽपि एकद्विबहुशब्देष्वेकत्वद्विबहुत्वानां केवलानां नियतोप. स्थितिसत्त्वेन सङ्ख्यामात्रे इत्येव व्याख्यातुमुचितत्वात् । अत एव भाष्ये वचनग्रहणांशे एकः द्वौ बहवः इत्युदाहृतम् । ननु एकः द्वौ बहवः इत्यत्र एकत्वद्वित्वबहुत्वानां नियमेनोपस्थित्या 'प्रातिपदिकार्थे। इत्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आहइहेति । प्रकृतिभिरेवैकत्वादीनामुक्तत्वात् 'उक्तार्थानामप्रयोगः' इति न्यायेन प्रथमा. विभक्तरप्राप्तौ तदर्थ वचनग्रहणमित्यर्थः। तथाच विभक्तिरिहानुवादिका शब्दसाधुत्वार्थ प्रयोज्या, 'न केवला प्रकृतिः प्रयोक्तव्या' नापि प्रत्ययः इति अनभिहितसूत्र. भाष्यसिद्धन्यायादिति भावः । इदमेवाभिप्रेत्योक्तं भाष्ये-'उक्तेष्वप्येकत्वादिषु प्रथमा' इति । मात्रग्रहणात् कारकाद्याधिक्ये प्रथमा न भवति । अत्र 'अथें प्रथमा' इत्येव सूत्रयितुमुचितमिति प्रौढमनोरमादौ प्रपञ्चितम् । ___सम्बोधने च । इहेति । सम्बोधने अधिके गम्येऽपि प्रथमा स्यादित्यर्थः। सम्बोधनमभिमुखीकृत्य ज्ञापनम् । हे रामेति । मां पाहीति शेषः । इह राम प्रति मद्रक्षणं ज्ञाप्यम् । न च हे राजन् सार्वभौमो भव' इत्यत्र सार्वभौमशब्दादपि सम्बोधनप्रथमा स्यादिति वाच्यम् , सम्यक् बोधनमेव हि सम्बोधनम् समित्युपसर्गबलात् । श्रोतरि विशिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थो ज्ञापयितुं शक्यः, नान्यथा । ततश्च सम्बोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते । न तु विधेयविषया । तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाभावान्न सार्वभौमशब्दात् सम्बोधनविभक्तिरिति मञ्जूषायां विस्तरः । इति प्रथमा विभक्तिः।
अथ द्वितीया विभक्तिः । कारके । इत्यधिकृत्येति । संज्ञा वक्ष्यन्ते इति शेषः। क्रिया. जनकं कारकम् , करोति-क्रियां निवर्तयतीति भाष्ये व्युत्पत्तिदर्शनात् । ब्राह्मणस्य पुत्रं पश्यतीत्यत्र ब्राह्मणस्यान्यथासिद्धत्वान्न कारकत्वम् । कर्तुरीप्सित । कारके इत्य. नुवर्तते प्रथमया विपरिणम्यते। आप्तुमिष्यमाणमीप्सितम्। आप्ल व्याप्ती, अस्मात
For Private and Personal Use Only