________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४४४
१॥४॥३०॥ जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते । (५४४) भुवः प्रभवः शा३२॥ भवनं भूः । भूकर्तुः प्रभवस्तथा। हिमवतो गङ्गा प्रभ. वति । तत्र प्रकाशते इत्यर्थः।। _ 'स्यब्लोपे कर्मण्यधिकरणे च' ( वा १४७४-१४५५) । प्रासादात्प्रेक्षते, आसनात्प्रेक्षते । प्रासादमारुह्य, आसने उपविश्य, प्रेक्षते इत्यर्थः । श्वशुराज्जि. हेति । श्वशुरं वीक्ष्येत्यर्थः । 'गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम्। (वा ५०४१ ) कस्मात्त्वम् , नद्याः । 'यतश्चाध्यकालनिमानं ततः पञ्चमी' ( वा
एवेति वक्ष्यते । जायमानस्येति । जनधातोः कर्तरि लटरशानच् , श्यन् , ज्ञाजनोर्जा 'आने मुक्' उत्पत्त्याश्रयस्येत्यर्थः। प्रकृतिशब्द व्याचष्टे-हेतुरिति । ब्रह्मण इति । हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत् तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम् , संयोगविश्लेषसत्त्वेन 'ध्रुवमपाये' इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्दः उपादानकारणपर एव । अत एव भाष्यकैयटयोः 'गोमया. वृश्चिका जायन्ते गोलोमाविलोमभ्यो दूर्वा जायन्ते' इत्युदाहत्य परिणामेषु प्रकृतिव्यावयवानुस्यूतिसस्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् 'ध्रुवमपाये' इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवञ्च 'ब्रह्मणः प्रजाः प्रजायन्ते' इत्यत्र ब्रह्मशब्देन मायोपहितमीश्वरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः । भुवः प्रभवः । पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेकदेशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते । तदाह-भूकर्तुरिति । भवनं भूः सम्पदादित्वात् क्लिप । भुवः कर्ता भूकर्ता तस्ये. त्यर्थः । प्रभव इति । प्रभवति प्रथम प्रकाशतेऽस्मिन्निति प्रभवः, प्रथमप्रकाशस्थानमि. त्यर्थः । प्रभवतीत्यस्य उत्पद्यते इत्यर्थे तु असङ्गतिः, गङ्गायास्तत्रानुत्पत्तेः । तदाहप्रकाशते इत्यर्थ इति । प्रथम प्रकाशते इति यावत् । अत एव हिमवति प्रकाशते इत्यत्र न भवति । एतेन जनिकर्तुरित्यनेन 'ध्रुवमपाये' इत्यनेन च गतार्थत्वं निरस्तम् । भा. ध्ये तु अपक्रामतीत्यर्थमाश्रित्य 'ध्रुवमपाये' इत्यनेनैव सिद्धमिति स्थितम् । . ल्यब्लोपे इति । ल्यबन्तस्य लोपे अदर्शने अप्रयोगे सति गम्यमानतदर्थे प्रति कमणि अधिकरणे च पञ्चमी वाच्येत्यर्थः । जिहेतीति । लज्जते इत्यर्थः। नन्वत्र ल्यबन्तस्य प्रयोगाभावात् कथं तदर्थ प्रति कर्माद्यवगतिरित्यत आह-गम्यमानापोति । प्रकरणादिनेत्यर्थः । गम्यमानापीत्यस्य प्रयोजनान्तरमाह-कस्मात्वमिति । आगतो. सीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः । नद्या इत्युत्तरम् । आगतोऽस्मीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः। यतश्चेति । यत इति तृतीयार्थे तसिः। येनावधिना अध्वनः कालस्य बा निमानं परिच्छेदः इयत्ता गम्यते, ततः पञ्चमी वा.
२४बा०
For Private and Personal Use Only