________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४ ]
बालमनोरमासहिता।
'पदान्ताः' इत्येव । आच्छेत् । समासेऽप्ययं प्रकृतिभावः। सप्तऋषीणाम्-सप्तर्षीणाम् ॥ (8३) वाक्यस्य टेः प्लुत उदात्तः ॥२२॥ इत्यधिकृत्य ॥ (8) प्रत्यभिवादेऽशूद्रे माश३॥ अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः
होतृ कार इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यकत्वात् । पदान्ता इत्येवेति । पदा. न्तग्रहणमत्राप्यनुवर्तनीयमेवेत्यर्थः । पार्च्छदिति। - गतौ। लङ् तिप् शप् । पाघ्रा. ध्मेति ऋच्छादेशः। इतश्चेति इकारलोपः, आडजादीनामित्याडागमः, आटरचेति वृद्धिः, आ अच्छदिति स्थिते आकारस्य अकः पदान्तत्वाभावान्नोक्तः प्रकृतिभावः । न समास इति पूर्वसूत्रस्थं निषेधवार्तिकमिह न सम्बध्यत इत्याह-समासेऽपीति । सप्तऋषीणामिति । 'दिक्सख्ये संज्ञायामिति समासः। सप्तऋषीणामिति प्रकृतिभावपने रूपम् । तदभावपमे तु आद्गुण इति गुणे रपरत्वे सप्तर्षीणामिति भवति ।
अथ प्लुतप्रगृह्या इति सूत्राकाजितप्लुतप्रगृह्मयोर्मध्ये प्रथमोपात्तप्लुतप्रकरणमारभते-वाक्यस्य टेः। पदस्येत्यधिकृतम् । वाक्यस्य टेः पदावयवस्य प्लुतो भवति, स च उदात्तो भवतीत्यर्थः । अत्र पदस्येत्यनुवृत्तिनश्छव्यप्रशानित्यादयुत्तरार्था, इहानुवृ. त्तिविच्छेदे उत्तरत्रानुवृत्तेरसम्भवात् । वाक्यस्येत्यभावे पदस्य टेरित्युक्त यावन्ति वाक्ये पदानि तावतां टेः प्लुतः प्रसज्येत । वाक्यस्येत्युक्त तु वाक्यस्य टिरन्त्यस्यैव पदस्य सम्भवतीति न दोषः। टिग्रहणाभावे प्लुतश्रुत्या अचश्चेति परिभाषया अच इत्युपस्थितौ तस्य वाक्यविशेषणत्वात् तदन्तविधौ अजन्तस्य वाक्यस्येत्यर्थे सति अलोऽन्त्यपरिभाषया वाक्यान्तस्याचः प्लुत इति पर्यवसानात् ग्राम गच्छाग्निचित् इत्यादिहलन्तवाक्येषु प्लुतो न स्यात्। टिग्रहणे तु तत्सामदेिव टिना अचो विशेषणात् टेरवयवस्याचः प्लुत इत्यर्थो लभ्यत इति न दोष इति भाष्ये स्पष्टम् । इत्यधि. कृत्येति। प्लुतविधय आरभ्यन्त इति शेषः । प्रत्यभिवादेऽशुद्रे। वाक्यस्य टेः प्लुत उदात्त इत्यधिकृतम् । अशुद्ध इति च्छेदः। न शुद्धः अशुद्धः द्विजातिः तद्विषयः प्रत्यभिवादः विधिवत् अभिवादयमानं प्रति विधिवदाशीर्वचनम्। भावे घन्। अस्मिन् प्रत्यभिवादे विषये यद्वाक्यं तस्य टेः प्लुतः स्यात् । स चोदात्त इत्यर्थः । ___ अभिवादविधिमाह आपस्तम्बः- 'दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवा. दयीत, उरसमं राजन्यः, मध्यसमं वैश्यः, नीचैः शुद्धः। 'प्राञ्जलिः' इति । 'तिष्ठन् प्रातरभिवादमभिवादयीतासावहं भोः' इति च । असाविति स्वनामनिर्देशोऽभिमतः । देवदत्तोऽहं भोः इति ब्रुवन् अभिवादं आशीर्वचनं अभिवादयीत वक्तव्यत्वेन विज्ञाप. येत् । ततश्च यथावर्ण बाहुं प्रसार्य अभिवादये देवदत्तोऽहं भोः इति ब्रूयादित्यर्थः । अयमभिवादनप्रकारः।
For Private and Personal Use Only