SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् २७ ] बालमनोरमासहिता। ६६१ नडादिभ्यः फक १६ गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः । ( ११०२) हरितादिभ्योऽनः४।१।१००॥ एभ्योऽअन्तेभ्यो यूनि फक् । हारितायनः । इह गोत्राधिकारेऽपि सामर्थ्याचून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । बिदाद्यन्तर्गणो हरितादिः । (११०३) यभित्रोश्व ११०१ ॥ गोत्रे यो यनिजौ तदन्तात्फक्स्यात् । 'अनाति' इत्युक्तेः 'आपत्यस्य-(सू१०८२) इति यलोपो न। गाायणः । दाक्षायणः । ( ११०४) शरदच्छुनकदर्भादुभृगुवत्साग्रायणेषु ४।१।१०२॥ गोत्रे फक् । अभिजोरपवादः । मायौ बिदादी । शारद्वतायनो भार्गवश्चेत्, शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् , शोनकोऽन्यः । दार्भायणः भारायणश्चेत् , दार्भिरन्यः। (१९०५) द्रोणपर्वत. जीवन्तादन्यतरस्याम् ४।१।१०३॥ एभ्यो गोत्रे फवा द्रौणायनः-द्रौणिः । पार्वतायन:-पार्वतिः । जैवन्तायन:-जैवन्तिः । अमादिरिह द्रोणः। अश्वत्थायोपधत्वान्जातिलक्षणीषभावे टाप् स्यादिति भावः। फञ्चिधौ गोत्रग्रहणस्य प्रयोजनमाह-अनन्तरापत्ये कौजिरिति । नडादिभ्यः फक् । इजोऽपवादः । अनन्तरो नाडिरिति । अनन्तरापत्यस्य गोत्रत्वाभावात् फगभावे इनवेत्यर्थः । 'हरितादिभ्योऽः' इत्यादि स्पष्टम् । यभिओश्च । गोत्रे इत्यधिकृतं यजिनोविशेषणम् , नतु विधेयस्य फकः, व्याख्यानात्। तदाह-गोत्रे यौ यनिमाविति । सामान्ययम् । न हि गोत्रप्रत्ययात् गोत्रप्रत्ययोऽस्ति, 'एको गोत्रे इति नियमात् । अनातीति । गर्गस्य गोत्रं गाग्यः । गर्गादित्वाध । गाय॑स्यापत्वं युवेत्यर्थे यजन्तात् फकि आयनादेशे अनातीति पर्युदासात् 'अपत्यस्य च इति यलोपाभावे णत्वे गाायण इति रूपमित्यर्थः । दाक्षायण इति । दक्षस्य गोत्रापत्यं दाक्षिा, अत इज , दाक्षेरपत्यं युवा दाक्षायणः, इसन्तात्फक् । गोत्रे किम् । सुतगमस्यादूर. भवा इत्यर्थे 'सुतङ्गमादिभ्य इञ्' इति इमि सौतङ्गामेरपत्ये न फक् । शरद्वच्छनक । शेषपूरणेन सूत्रं व्याचष्टे-गोत्रे फगिति । श्राद्यौ विदादी इति । शरद्वच्छुनकशब्दौ बिदादी । अतः तदुभयविषये अनपवाद इत्यर्थः । दर्भविषये त्विजोऽपवाद इति स्पष्टमेव । दर्भः कश्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादिस्वादिन् । प्राग्रायणश्चेदिति । अग्रो नाम कश्चिदृषिः । नडादिफगन्तोऽयम् । द्रोणपर्वत । अनादिरिति । अश्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः, तदपेक्षया अन्य एवायं अनादिोण इत्यर्थः । अश्व. स्थाम्नीति । द्रोणाचार्यस्यानन्तरापत्ये अश्वत्थाम्नि द्रौणायन इति प्रयोग इत्यर्थः । तदिदं 'बाहादिभ्यश्च' इति सूत्रे भाष्ये स्पष्टम् । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy