________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
काद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः । (६०५) दूरान्तिकार्थभ्यो द्वितीया च २|३|३५|| एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये च । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरम् - दूरात्- दूरेण वा अन्तिकम् - अन्तिकात् - अन्तिकेन वा । असत्ववचनस्य इत्यनुवृत्तेर्नेह | दूरः पन्थाः । ( ६०६) षष्ठी शेषे २३|५० ॥ कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्बाभिभावादिसम्बन्धः शेषः । तत्र षष्ठी स्यात् ।
४५५
कृच्छ्र कतिपय एभ्यश्चतुर्भ्यः इत्यर्थः असत्त्वपदं व्याचष्टे - प्रद्रव्येति । अन्यतरख्या मित्यनुवर्तते, पञ्चमीति च । ततश्च करणे पञ्चमी वेति लभ्यते । तदभावे तु तृतीया सिद्धैव । तदाह - तृतीयापञ्चम्याविति । स्तोकेन स्तोकाद्वा मुक्त इति । लघुना आयासेन मुक्त इत्यर्थः । आयासो न द्रव्यमिति भावः । द्रव्ये स्विति । द्रव्ये वृत्तौ स्तोकेन विषेण हत इति तृतीयैवेत्यर्थः । अल्पेनाल्पाद्वा मुक्तः । कृच्छ्रेण कृच्छ्राद्वा मुक्तः । कष्टेनेत्यर्थः । कतिपयेन कतिपयाद्वा मुक्तः । अकृत्स्नेन साधनेनेत्यर्थः ।
दूरान्तिक । एभ्य इति । दूरार्थकेभ्यः अन्तिकार्थं केभ्यश्चेत्यर्थः । चकारः व्यवहितयोरपि पञ्चमीतृतीययोः समुच्चयार्थः । नतु 'दूरान्तिकार्थः षष्ठयन्यतरस्याम्' इति सन्निहितषष्ट्या अपि व्याख्यानात् । तदाह - चारपन्चमीतृतीये चेति । प्रातिपदिकार्थमात्रे विधिरयमिति । व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् । 'दूरादावसथान्मूत्रं दूरात्पादावनेजनम् ।" इति भाष्यप्रयोगात् सप्तम्यर्थेऽधिकरणेsप्ययं विधिः । ननु दूरः पन्था इत्यत्र कथं न पञ्चमीत्यत आह-असत्ववचनस्येति । दूरः पन्था इत्यत्र पन्थाः द्रव्यम् । तद्विशेषणं दूरशब्दः सत्त्ववचन इति भावः ॥ इति पञ्चमी विभक्तिः ॥
I
अथ षष्ठी विभक्तिः । षष्ठी शेषे । उक्तादन्यः शेषः । 'कर्मणि द्वितीया' इत्यादिसूत्रेषु द्वितीयादिविधिषु हि कर्मकर्तृकरणसम्प्रदानापादानाधिकरणकार काण्यनुक्रान्तानि । प्रथमाविधौ प्रातिपदिकार्थोऽनुक्रान्तः । एतेभ्यः अन्यः स्वस्वामिभावादिसम्बन्धः शेषपदार्थ इत्यर्थः । तत्रासति बाधके सम्बन्धो विशेषरूपेण सामान्यरूपेण च भासते, 'न हि निर्विशेषं सामान्यम्' इति न्यायात् । सति तु बाधके मातुः स्मरतीत्यादौ सम्बन्धत्वेनैव भानम् । कर्मत्वादिविशेषरूपेणापि भाने द्वितीयादिप्रसङ्गादिति स्थि तिः । राज्ञः पुरुष इत्यत्र स्वस्वामिभावरूपविशेषात्मना सम्बन्धत्वरूप सामान्यात्मनाच सम्बन्धः षष्ठ्यर्थः । राजाश्रितस्वामित्वनिरूपितस्वत्वात्मकसम्बन्धाश्रयः पुरुष इति बोधः । आश्रयत्वादि तु संसर्गमर्यादया भासते । तत्र पुरुषो मुख्यं विशेष्यम् । सम्बन्धस्त्वाधेयतया पुरुषविशेषणम् । राजा तु आश्रयतया सम्बन्धविशेषगम् । सम्बन्धस्त्वाधेयतया राजानं प्रति विशेष्यम्, 'प्रधानप्रत्ययार्थवचनम्' इति
For Private and Personal Use Only