________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ कारक
wammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव । सतो गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शम्भोश्चरणयोः । फलानो तृप्तः । (६०७) षष्ठी हेतुप्रयोगे २।३।२६॥ हेतुशब्दप्रयोगे हेतौ द्योत्ये वचनन प्रत्ययार्थस्य प्रकृत्यर्थ प्रति प्राधान्यावगमात्। अत एव पुरुषशब्दादपि न षष्टी, राजनिरूपितसम्वन्धाश्रयः पुरुष इति बोधे सम्बन्धस्य प्रकृत्यर्थपुरुषं प्रति विशेषणत्वेन विशेष्यत्वेन च भानानुपपत्तः। यदा तु पुरुषगतस्वत्वनिरूपितस्वामित्वरू. पसम्बन्धाश्रथो राजेति बोधः, तदा पुरुषस्य राजेति पुरुषशब्दात् षष्ठी भवत्येवे. त्यन्यत्र विस्तरः। ___ सतां गतमित्यादौ कर्तृतृतीयादिकमाशङ्याह-कर्मादीनामपीति । कर्मत्वकर्तृत्वा. दीनामपि सम्बन्धत्वसामान्यात्मना विवक्षायां षष्ठशेव, नतु कारकविभक्तय इत्यर्थः । तथाच 'क्तस्य च वर्तमाने' इति सूत्रे भाष्यम्-'कर्मत्वादीनामविवक्षा शेषः' इति । सतां गतमिति । भावे क्तः । सत्सम्बन्धि गमनमित्यर्थः । कर्तृत्वविवक्षायां तु सद्भिर्गत. मिति तृतीया भवत्येव । कृयोगलक्षणा षष्ठी तु न भवति, 'न लोक' इति निषेधात् । सर्पिषो जानीते इति । करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः । करणत्वस्य सम्बन्धत्वविवक्षायां तु षष्ठी, काश्रिता सर्पिस्सम्बन्धिनी प्रवृत्तिरिति बोधः । मातुः स्मरतीति । कर्मत्वविवक्षायां मातरं स्मरतीत्यर्थः। कर्मस्वस्य शेषत्वविवक्षायां तु देवदत्तकर्तृकं मातृसम्बन्धि स्मरणमित्यर्थः । एधो दकस्योपस्कुरुते इति । एधशब्दःअका. रान्तः पुंलिङ्गः, 'कारके' इति सूत्रे “एधाः पक्ष्यन्ते" इति भाष्यप्रयोगात् । एधाश्च उदकानि चेति द्वन्द्वात् षष्ठी। 'जातिरप्राणिनाम्। इत्येकवद्भावः । कर्मत्वविवक्षायाम् एधोदकं शोषणगन्धद्रव्याधानादिना परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु एधोदकसम्बन्धिपरिष्करणमिति बोधः । एधश्शब्दस्साकारान्तोऽप्यस्ति नपुंसक. लिङ्गः, 'काष्ठं दाविन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् ।' इति कोशात् 'यथैधांसि समिद्धोऽग्निः' इत्यादिदर्शनाच्च । तथा सति एधः दकस्येति छेदः, उदकशब्दसमावेशे एध उदकस्येत्यापत्तेः । उदकशब्दपर्यायो दकशब्दोऽप्यस्ति, 'भुवनममृतं जीवन स्यात् दकं च' इति हलायुधकोशात् । तथाच एधः कर्तृ उदकं परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु षष्ठी, निम्बकरादिकाष्ठविशेषप्रज्वलिताग्नितप्लोदकस्य गुणवि. शेषो वैद्यशास्त्रप्रसिद्धः । भजे शम्भोश्चरणयोरिति । अत्र चरणयोः कर्मस्वस्य शेषत्वविवक्षायां षष्ठी । शम्भुचरणसम्बन्धि भजनमित्यर्थः । फलानां तृप्त इति । अत्रापि करण. त्वस्य शेषत्वविवक्षायां षष्ठी । फलसम्बन्धिनी तृप्तिरिति बोधः।। ___षष्ठी हेतुप्रयोगे । हेतावित्यनुवर्तते । तदाह-हेतौ धोत्ये इति । हेतुत्वे धोत्ये इत्यर्थः । हेतुवाचकात् षष्ठीति फलितम् । हेतौ' इति तृतीयां बाधित्वा षष्ठी । हेतुप्रयोगे
For Private and Personal Use Only