________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
षष्ठी स्यात् । अन्यस्य हेतोर्वसति । ( ६०८ ) सर्वनाम्नस्तृतीया च २|३|२७||
सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्टी च । केन हेतुना वसति । कस्य हेतोः । 'निमित्त पर्यायप्रयोगे सर्वासां प्रायदर्शनम्' ( वा १४७३) किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय इत्यादि । एवं किं कारणम्, को हेतुः, किं प्रयोजनम् इत्यादि । प्रायप्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्ताय इत्यादि । ( ६०६ ) षष्टयतसर्थप्रत्ययेन २|३|३०|| एतयोगे षष्ठी स्यात् । ' - दिक्छन्द -' ( सू ५९५ ) इति पचम्या अपवादः । प्रामस्य दक्षिणतः, पुरः, पुरस्तात्, उपरि, उपरिष्टात् । किम् । अन्नेन वसति । हेतौ द्योत्ये इति किम् । अन्नस्य हेतोस्तुभ्यं नमः । अत्र युष्मच्छदान्न भवति । सर्वमाम्नस्तृतीया च । सर्वनाम्न इति षष्ठी । तदाह - सर्वनाम्नो हेतुशब्दस्य चेति । कस्माद्भवतीत्यपेक्षायां सन्निहितत्वात् सर्वनामहेतुभ्यामिति गम्यते इत्यभिप्रेत्योदाहरति-केन हेतुनैति । सर्वनाम्न इति यदि पञ्चमी स्यात्, तदा हेतुशब्दात् षष्ठी न स्यादिति बोध्यम् । निमित्तपर्यायेति । निमित्तपर्यायाणां प्रयोगे तेभ्यस्तत्समानाधिकरणेभ्यश्च सर्वासां विभक्तीनां प्रायेण प्रयोगो भवतीत्यर्थः । किं निमित्तं वसतीति । प्रथमान्तं द्वितीयान्तं च ज्ञेयम् । इत्यादीति । कस्मात् निमित्तात्, कस्य निमित्तस्य, कस्मिन्निमित्ते । पर्यायग्रहणस्य प्रयोजनमाह — एवं किं कारणमित्यादि । प्रायग्रहणस्य प्रयोजनमाह-- प्रायग्रहणादिति । एवं च ' षष्ठी हेतुप्रयोगे' 'सर्वनाम्नस्तृतीया च' इति सूत्रद्वयं न कर्तव्यं भवतीति भावः । षष्ठयतसर्थ । एतद्योगे इति । 'दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः' इत्यारभ्य 'आहि च दूरे' 'उत्तराच्च' इत्यन्तैः सूत्रैर्दिग्देशकालवृत्तिभ्यः शब्देभ्य' स्वायें प्रत्यया विहिताः तत्र 'दक्षिणोत्तराभ्यामतसुच्' इति विहितः यः अतसुच्प्रत्ययः तस्यार्थः । दिग्देशकालरूपः स एवार्थो यस्य सः अतसर्थप्रत्ययः तद्योगे इत्यर्थः । यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमः । तथापि लाघवादतसर्थेत्युक्तम्, न स्वस्तात्यर्थेति, संयुक्ताक्षरघटितत्वेन गौरवात् । दिक्शब्देतीति । 'अन्यारात' इति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः । दक्षिणत इति । सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेः दक्षिणशब्दात् अतसुच् । दक्षिणस्यां दक्षिणस्याः, दक्षिणा वा दिमित्यर्थः । एवं देशे काले च । पुरः इति । पूर्वाशब्दादस्तात्यर्थे 'पूर्वाधरावराणामसि पुरवश्चैषाम्' इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च । पूर्वस्यां, पूर्वस्याः पूर्वा वेत्यर्थः । पुरस्तादिति । पूर्वशब्दादस्तातिप्रत्यये सति 'अस्ताति च' इति प्रकृतेः पुरादेशः । पुरश्शब्दसमानार्थकमिदम् । उपरीति । 'उपर्युपरिष्टात्' इति सूत्रेण ऊर्ध्वशब्दात्
1
For Private and Personal Use Only
૪૫૭