________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता।
४११३८॥ मनुशब्दस्यौकारादेशः स्यादुदात्तैकारश्च वा। ताभ्यां सन्नियोगशिष्टो डीच । मनोः स्त्री मनायी-मनावी-मनुः । (885) वर्णादनुदात्तातोपधा. तो नः ४।११३६॥ वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा डीप्स्यात् तकारस्य नकारादेशश्च । एनी-एता रोहिणी-रोहिता । 'वर्णानां
मनोरौ वा । ऐ चेति, उदात्त इति, डीबिति चानुवर्तते । तदाह-मनुशम्दस्येति । उदा. स्तैकारश्च वेति । औकार:, उदात्त ऐकारश्च वा स्यादित्यर्थः । उदात्तैकार इति समास: निर्देशादुदात्त इत्यौकारेण न सम्बध्यत इति सूचितम्, एतच्च वृत्तिपदमार्योः स्प: टम् । चकारात् डीप ऐकारौकाराभ्यां समुच्चीयते । तदाह-ताभ्यामिति । ऐकारौकाराभ्यां समुच्चयेनैव विहित् इत्यर्थः । ततश्च तदुभयाभावपक्षे डीबपि नेति लभ्य. ते, 'सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति परिभाषावशादिति भावः । इयं तु परिभाषा 'पूतक्रतोर च' इति सूत्रभाष्ये स्थिता। मनायीति । 'यदै किं च मनुरवदत्' इत्यादौ मनुशब्दः 'नित्यादिनित्यम्' इत्यायुदात्तः । 'धान्ये नित्' इत्यतो निदित्यनुवृत्तौ 'शृस्वृस्निह्' इत्यादिना मनेरुप्रत्ययविधेः। ततश्च शिष्टस्वरेण नकारादुकारः अनुदात्तः । तस्य स्थाने उदात्त ऐकारः, तस्यायादेशः डीप चेति भावः । मनावीति । अत्रौकारोऽनुदात्त एव । मनुरिति । ऐकारस्य औकारस्य चाभावे तत्सन्नियोगशिष्टो डीबपि नेत्युक्तमेव ।
वर्णादनु । वेति डीबिति चानुवर्तते । अनुदात्तादिति वर्णादित्यस्य विशेषणम् , तदन्तविधिः । तोपधादित्यपि वर्णादित्यत्रान्वेति, तकारः उपधा यस्येति विग्रहः । तकारादकार उच्चारणार्थः । वर्णादित्यस्य 'स्वं रूपं शब्दस्य' इति वर्णशब्दादिति नार्थः, तोपधत्वासम्भवात् । कि तु वर्णवाचिनः शब्दादित्यर्थो विवक्षितः। वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेषणम् , तदन्तविधिः। त इति षष्ठी, तकारस्येत्यर्थः । न इत्यत्र नकारादकार उच्चारणार्थः, नकार इत्यर्थः। तदाह-वर्णवाचीत्या. दिना। तदन्तादनुपसर्जनादिति । अनुपसर्जनादित्यनुवृत्तीवर्णान्ते अन्वेति, नतु वर्णादि. त्यत्रेति भावः । एनी एतेति । श्वेतेत्यर्थः । एतशब्दात् की , तकारस्य नकारश्च । डीबभावे टाबेव । नत्वं तु न भवति, डीपा संनियोगशिष्टत्वात्। एतशब्दः श्वेतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरुद्रदत्तप्रभृतयो याज्ञिकाः । रोहिणी-रोहितेति । रोहितशब्दो रक्तवर्णपर्यायः। डीपि णत्वे रोहिणीति । तदभावे टाप् । अनुदात्तान्तत्वं गमयितुमाह--वर्णानामिति । तान्तेत्यत्र तकारादकार उच्चारणार्थः । त, ण, ति, नि, त् इत्यन्तानां आदिरुदात्त इत्यर्थः । एतः शोणः, शितिः, पृश्निः, पृषत् इति क्रमेणोदाहरणानि । प्रकृते एतशब्दे एकारस्य, रोहितशब्दे ओका
For Private and Personal Use Only