SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ९ ] बालमनोरमासहिता | विनापि स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् ॥ इति ईदन्ताः ॥ धेनुः मतिवत् । ( ३०५) स्त्रियां च ७ । १ । ६६ ॥ स्त्रीवाची क्रोष्टुजब्दस्तृषन्तवद्रूपं लभते । (३०६) ऋनेभ्यो ङीप् |४|१|५ ॥ ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात् । क्रोष्ट्री क्रोष्ट्रयौ क्रोष्ट्रयः । इत्युदन्ताः ॥ वधूः गौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि 'हापितः कासि हे सुभ्रु' इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । ' हन्कर' (वा ४११८) २११ हार बिना स्त्रीलिङ्गाप्रतीतेः वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाभावान्नदीत्वं नेत्यर्थः । एवमिति । खलपवनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्वम् भौत्सर्गिक सामान्यतः सिद्धम् । अतः खलपूः कटः इत्यादिशब्दानामपि स्त्रियां वृत्तिकारादिमतेऽपि नित्यस्त्रीत्वं न । अतः पुंबदेव रूपमित्यर्थः । इति ईदन्ताः । अथ उदन्ता निरूप्यन्ते । धेनुर्मतिवदिति । उकारस्य भोकारो गुणः अवादेश इत्यादिविशेषस्तु सुगम इति भावः । अथ क्रोष्टुशब्दस्य स्त्रियां विशेषमाह - स्त्रियां च । 'सृज्यत्कोष्टुः" इत्यनुवर्तते । रूपातिदेशोऽयमित्युक्तम् । तदाह-स्त्रीवाचीत्यादिना । तथाच स्त्रियासुदन्तः क्रोष्टुशब्दो नास्त्येव । किन्तु क्रोष्ट्र इति ऋदन्त एवेति फलि - तम् । ऋन्नेभ्यो ङीप् । ऋतश्च नचेति द्वन्द्वः । स्त्रियामित्यधिकृतम् । ब्याप्प्रातिपदिकात् इत्यतः प्रातिपदिकग्रहणमनुवृत्तम् ऋन्नकारैर्विशेष्यते । तदन्तविधिः । तदाहऋदन्तेभ्य इत्यादिना । पावितौ । क्रोष्टु ई इति स्थिते यणि क्रोष्ट्रीशब्दात् सुबुत्पत्तिः। गौरीवद्रूपाणीत्याह- क्रष्ट्री इत्यादि । इत्युदन्ताः । I 1 अथ ऊदन्ता निरूप्यन्ते । वधूगौरीवदिति । 'वहो धश्च' इत्यूप्रत्ययः हस्य धश्च । धात्ववयवोवर्णाभावात् नोवङ् । ऊकारस्य यण् वकार इत्यादिविशेषस्तु सुगम इति भावः । भ्रूः श्रीवदिति । 'अश्मेव डू:' इति प्रत्ययान्तोऽयम् । 'अचि नुधातुनुवाम्” इत्युवङ् इत्यादिविशेषस्तु सुगम इति भावः । सु शोभना सूर्यस्याः सा सुभ्रुः । अस्त्रीप्रत्ययान्तत्वात् 'गोस्त्रियो:' इति ह्रस्वो न भवति । 'नेयङुवङ्स्थानावस्त्री ' इति शब्दस्य तदन्तस्य च निषेधात् नदीत्वं न । ततश्च 'अम्बार्थ' इत्यादि नदीकार्यं नेत्यभिप्रेत्याह - हे सुभूरिति । कथं तदीति । यदि सुभ्रूशब्दे नदीकार्य न स्यात् तदा 'हापितः क्कासि हे सुभ्रु' इति कथं भट्टिराहेत्यर्थः । रावणेन सीतापहारोतर रामविलापोऽयम् । हे सुभ्रु त्वया अहं हापितोऽस्मि विधिनेत्यर्थः । हापित इत्यस्य त्याजित इत्यर्थः । प्रमाद इति । 'अम्बार्थ' इति हस्वस्य करणादिति भावः । बहव इति । कतिपये सामान्ये नपुंसकत्वमाश्रित्य कथंचित् समादधुः । खलपूः पुंवदिति । 1 For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy