________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१०
सिद्धान्तकौमुदी
[ अजन्तस्त्रीलिङ्ग
न्तरं विनापि स्त्रियt वर्तमानत्वं नित्यस्त्रीत्वम्' इति स्वीकारात् । 'लिङ्गान्तरानभिधायकत्वं तत्' इति कैयटमते तु पुंवद्रूपम् । 'प्रकृष्टा धीः' इति विप्रहे तु लक्ष्मीवत् । अभि शसि च प्रध्यम्, प्रध्यः इति विशेषः । सुष्ठु धीर्यस्याः, सुष्ठु ध्यायति वेति विप्र तु वृत्तिकारमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु भोः इति विग्रहे तु श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं भिव्याहारापेक्षा । नैतावतास्य पदान्तरसमभिव्याहाराभावे स्त्रियां वृत्तिरपैति । अतः प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वात् नदीकार्य निर्बाधमिति भावः । लिङ्गान्तरेति । 'श्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्य स्त्रीत्वम्' इति कैयटमतम् । 'स्त्रीविषयामेव यौ यू तयोरेव नदीसंज्ञा' इति 'यू स्त्र्याख्यो' इत्यत्र भाष्यादिति तदाशयः । पुंवद्रूपमिति । उदाहृतप्रधीशब्दस्य त्रिलिङ्गतया नित्यस्त्रीत्वाभावात् पुंसीव स्त्रिया'मपि अनदीत्वादिति भावः । प्रकृष्टति । प्रकृष्टा धोरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्गत्वात् लक्ष्मो वद्रूपमित्यर्थः । श्रमि शचेति । प्रध्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दात् मेमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घ' च बाधित्वा 'एरनेकाचः' इति यण् ; इत्येतावान् विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थः । कैयटमते ब्राह्मण्याम् 'आध्यै' इति भाष्यप्रयोगस्तु बहुव्रीह्यभिप्रायेण नेयः । अत एव भाष्यात् ' नद्युतश्च' इति कप् नेत्याहुः ।
सुष्ठु धीर्यस्या इति । सुष्ठु धीर्यस्या इति सुष्ठु ध्यायतीति उभयविधविग्रहेऽपि पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वृत्तिकारादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन 'नेयहुवङ्स्थानावस्त्री' इति नदीत्वनिषेधात् 'डिति हस्वश्च' इति 'वाम' इति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि । 'न भूसुधियोः' इति यग्निषेधे इङ एव प्रवृत्तेरिति भावः । मतान्तरे तु पुंवदिति । लिङ्गान्तरानभिधायकत्वं नित्यस्त्रीत्वमिति कैयटमते तु त्रिलिङ्गतया नदीत्वाभावात् पुंवदेव रूपमित्यर्थः । ननु - सुधीशब्दे बहुव्रीहिप्रवृत्तेः प्राक् धीशब्दस्य नित्यस्त्रीलिङ्गत्वात् 'प्रथमलिङ्गग्रहणं च इति नदीत्वं दुर्वारमिति चेत्, सत्यम् - यस्य वृत्तेः प्राक् नदीत्वं दृष्टं तस्य उपसर्जनत्वेऽपि नदीत्वमतिदिश्यते । इह च वृत्तेः प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इययोग्यतया 'नेयवस्थानौ' इति नदोत्वनिषेधात् वृत्तावपि न तदविदेश इत्यास्तां तावत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति । मतद्वयेऽपि नित्यस्त्रीलिङ्गत्वादिति भावः । ग्रामणीः पुंवदिति । स्त्रियामिति शेषः । ननु ग्रामं नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत् पदान्तरं विनापि स्त्रियां वर्तमानत्वात् नित्यस्त्रीलिङ्गत्वानदीकार्य सत्वात् पुंवदिति कथमित्यत आह- ग्रामनयनस्येति । ग्रामनयनस्य लोके उत्सर्गतः सामान्यतः पुंधर्मतया (पुरुषकर्तव्यतया) ब्राह्मणीत्यादिपदान्तर समभिव्या
For Private and Personal Use Only