SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [तद्धिते प्राग्वहतीय गान्नेह । पाटलानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्कचिल्लुक् । अशोकम् । करवीरम् । (१५४६ ) हरीतक्यादिभ्यश्च ४।३।१६७॥ एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनो लिगमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः । (१५४७) कंसीयपरशव्ययोर्यत्रो लुक्च ४।३।१६८॥ कंसीयपरशव्यशब्दाभ्यां यजनौ स्तश्छयतोश्च लुक । कंसाय हितं कंसीयम् । तस्य विकारः कास्यम् । परशवे हितं परशव्यम् , तस्य विकारः पारशवः । इति तद्धिते चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् । अथ तद्विते प्राग्वहतीयप्रकरणम् ॥ ३०॥ (१५४८ ) प्राग्वहतेष्ठक ४।४।१॥ तद्वहतीत्यतः प्राक् ठगधिक्रियते । 'तदाहेति माशब्दादिभ्यः उपसङ्ख्यानम्' (वा २९५१) मा शब्दं कार्षीः इति त्वम् । पाटलानीति । बिल्वादित्वादण। एवं साल्वानि । ननु अशोकस्य पुष्पम् अशोकं, करवीरस्य पुष्पं करवीरम् , इत्यत्रापि 'पुष्पमूलेषु बहुलम्' इति लुपि युक्तवत्त्वात् पुंस्त्वे अशोकः पुष्पं करवीरः पुष्पमिति स्यादित्यत आह-बहुलग्रहणात् कचिल्लुगिति । तथा च युक्तवत्त्वस्याप्रवृत्तः विशेष्यनिघ्नत्वमेवेति भावः ।। ___ हरीतक्यादिभ्यश्च । हरीतक्यादीनामिति । वार्तिकमिदम् । एषां प्रकृतिलिङ्गमेव लुप्तप्रत्ययाथें अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः । हरीतक्य इति । जातिकीषन्तः प्रत्ययस्वरेणान्तोदात्तो हरीतकीशब्दः । ततोऽनुदात्तादित्वादमि तस्य 'फले लुक इति लुकि प्राप्ते लुपि युक्तवत्त्वात्स्त्रीत्वे विशेष्यानुरोधादबहुवचनम् । कंसीयपर. शव्य। अन्न यसमार्न लुक् , विधिवैयर्थ्यात् । नापि प्रकृत्योः, प्रत्ययादर्शनस्यैव लुक्त्वात् । अतः परिशेषात् प्रकृत्येकदेशयोः छयतोरिति लभ्यते । तदाह-छयतोरिति । कंसीयमिति । कसा नाम धातुर्लाहविशेषः । तस्मै हितमिति छः । कांस्यमिति । कंसीय. शब्दात् यजि छस्य .लुकि आदिवृद्धौ 'यस्येति च' इत्यकारलोपः। परशव्यमिति । 'तस्मै हितम्' इत्यधिकारे 'उगवादिभ्यो यत्' इति आर्गुणे 'वान्तो यि' इत्यवादेशः । पारशव इति । परशव्यशब्दादमि यतो लुकि ओणे पारशवः । 'हलस्तद्धि. तस्य' इति तु न, ईतीत्यनुवृत्तः। अनापत्यत्वात् 'आपत्यस्य च' इत्यपि लोपोन प्रसज्यत इति भावः। इति तद्धिते चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् । .. अथ चतुर्थस्य चतुर्थः पादः प्रारभ्यते-प्राग्वहतेष्ठक्। वहतीत्येकदेशेन 'तद्वहति रथयु. गप्रासङ्गम्' इति सूत्रं परामृश्यते इत्यभिप्रेत्याह-तद्वहतीत्यत इति । तदाहेति । इति. शब्दो व्युत्क्रमेण तच्छब्दानन्तरं द्रष्टव्यः । तदित्याहेत्यर्थे माशब्दस्वागतहत्यादि. शब्देभ्यः ठक उपसङ्ख्यानमित्यन्वयः । तदित्यनेन वाक्यार्थी विवक्षितः । इतिश For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy