SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०८ सिद्धान्तकौमुदी [ तत्पुरुषसमास णगुण'-(सू ७०५) इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सवश्वेतः। सर्वेषां महत्तरः सर्वमहान् । 'कृद्योगा च षष्ठी समस्यत इति वाच्यम्' (वा १३१५) इध्मस्य प्रव्रश्चनः इध्मप्रवश्वनः । (७०४) न निर्धारण २।२।१०॥ निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः । 'प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम्' ( वा १३२०)। सर्पिषो ज्ञानम् । (७०५) पूरणगु. णसुहितार्थसव्ययतव्यसमानाधिकरणेन २।२१॥ पूरणाद्यथैः सदादिभिश्च षष्ठी न समस्यते । पूरणे, सतां षष्ठः । गुणे, काकस्य कार्ण्यम् । ब्राह्म इत्येवोक्तम् । सर्वशब्दानुवृत्तः सर्वशब्द, एवेदं वातिकमित्यभिप्रत्योदाहरति-सर्वेषां श्वेततरः सर्वश्वेत इति । बकानां गुण इति शेषः । द्रव्यान्तरवृत्तिश्वेतरूपापेक्षया सर्वेषां बकानां श्वेतगुणोऽयमधिक इत्यर्थः। द्विवचनविभज्या इति विभक्तव्योपपदे तरप। अन सर्वेषामिति षष्ट्यन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् । सर्वमहानिति । ईश्वर इति शेषः । पूर्ववत्तरप् । सर्वेषां महत्तरः इति विग्रहः । इतरस. म्बन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिकमित्यर्थः। कृयोगेति । कृता योगो यस्या इति विग्रहः । 'कर्तृकर्मणोः कृति' इति विहितेति भाष्यम् । इध्मप्रव्रश्चन इति । कुठार इति शेषः। प्रवृश्चयतेऽनेनेति प्रवश्वनः । करणे ल्युट् । इध्मानां प्रवचन इति विन. हः । कर्मणि षष्ठी । 'प्रतिपदविधाना' इति वक्ष्यमाणनिषेधस्यापवादोऽयम् । ___ न निर्धारणे । नृणां द्विजः श्रेष्ठ इति । अत्र नृणामिति षष्टयन्तस्य द्विजशब्देन समालो न भवति । पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्टयेव, न तु निर्धारणषष्ठी। यतो निर्धारणम् यच्च निर्धार्यते, यश्च निर्धारणहेतुः, एतस्त्रितयसन्निधान एव तस्याः प्रवृत्ते. रिति कैयटः । गुणेन निषेधस्त्वनित्य इति तरप्सूत्रे कैयटः । केचित्तु 'उत्तमः पुरुष. स्त्वन्यः परमात्मेत्युदाहृतः।' इति गीतावाक्यात् कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः । प्रतिपदविधानेति। पदं पदं प्रतीति वीप्सायामव्ययीभावः । प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना । षष्टी शेषे' इति शेषलक्षणां षष्ठी वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम् । सर्पि. षो ज्ञानमिति । अत्र 'ज्ञोऽविदर्थस्य करणे' इति विहितषष्ठयाः समासो न भवति । 'न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम्। . पूरणगुण । पूरणगुणसुहितानि अर्था येषां ते पूरणगुणसुहितार्थाः, ते च सच्च अव्ययं च तव्याच समानाधिकरणं चेति समाहारद्वन्द्वात् तृतीया। तदाह-पूरणाद्यर्थै रिति ।। पूरणे इति । उदाहरणं वक्ष्यत इति शेषः । सतां षष्ठ इति । षण्णां पूरण इत्यर्थे 'तस्य पूरणे डट् 'षट्कतिकतिपयचतुरां थुक्' । नच कुम्भपूरणमित्यत्रापि स निषेधः स्या For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy