SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ४२] बालमनोरमासहिता। ६३६ - विभागादन्यत्रापि द्वन्द्वम् इष्यते । इति द्विरुक्तप्रकरणम् । इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वाध समाप्तम् । स्वेन लोकविज्ञानमभिव्यक्तिरिति भाष्याल्लभ्यते । तदाह-साहचर्येणेत्यर्थ हति । अत्र द्वन्द्व न्यञ्चीत्यत्र वीप्सायां द्वित्वम् । अन्यत्र स्वाथें इति बोध्यम् । अन्यत्रापीति । द्व. न्द्वानि सहते इत्यादावित्यर्थः । शीतमुष्णं च एक द्वन्द्वम् । सुखं दुःखं चापरम्। क्षुत. ष्णा चान्यत् । इह स्वार्थे द्वन्द्वः। अम्भावादि पूर्ववत् । 'चाथै द्वन्द्व इति निपात. नादन्यत्रापीति सिद्धम्। इति द्विरुक्तप्रकरणम् । इति श्रीमत्सन्ततसन्तन्यमानश्येनकर्मषोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमितमहाध्वरस्य श्रीशाहजी तुक्कोजी भोसलचोलमहीमहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दरायविद्वत्सार्वभौमस्याध्वर्युणा पञ्चपुरुषीपोष्येण बाल्य एव तद्दयानितितापरिमिताग्निविजृम्भितवाजपेयसर्वपृष्ठामोर्यामप्रमुखमखसन्तपितशतमखप्रमुखबहिर्मुखेन पदवाक्यप्रमाणपारावारपारीणा. प्रजन्मविश्वेश्वरवाजपेययाजितो लब्धविद्यावैशयेन अध्वरमीमांसाकुतूहलवृत्तिनिर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्ये. ण बौधायनापस्तम्बसत्याषाढभारद्वाजकात्यायनाचलायनद्रामायणादिकल्पसूत्रतद्भाष्यपारीणमहादेववाजपेययाजिसुतेन अन्नपूर्णाम्बागर्भजातेन वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां पूर्वार्धं सम्पूर्णम् । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy