________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
२७
-
-
भाषा सञ्ज्ञा स्यात् । (२५) स्वं रूपं शब्दस्याशब्दसञ्ज्ञा ११११६८। सब्दस्य स्वं रूपं सज्ञि शब्दशास्त्रे या सज्ञा तां विना । (२६) येन विधिस्तदन्तस्य १।१।७२। विशेषणं तदन्तस्य सज्ञा स्यात् स्वस्य च रूपस्य। समासपर्यायाः शब्दाः, ते सर्वे अस्मिन् शास्त्रे निषेधविकल्पयोः प्रत्यायका इति सूत्रार्थपर्यवसानं बोध्यम् । भाष्ये तु विभाषादिशब्दानां लोकवदेव केवलविकल्पपरत्वेऽपि लक्ष्यानुरोधेनैव क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्त्युपपत्तेः एतत्सूत्रं प्रत्याख्यातमित्यलं बहुना। __ 'अग्नेक 'वास्तुपित्रुषसो यत्' 'राज्ञो यत्' इत्यादौ लौकिकव्युत्पत्या उपस्थितानां वहिवातादीनामर्थानां ढगादिप्रत्ययैः पौर्वापर्यासम्भवात् प्रातिपदिकादित्यनेनान्वयासम्भवाच्च तत्तदर्थकपर्यायशब्दानां ग्रहणापत्तो तन्नियमार्थमिदं सूत्रमारभ्यते-त्वं रूपम् । अग्ने गित्यादौ अग्न्यादिशब्दस्य यत् स्वरूपं श्रुतं तदेव अग्न्यादिशब्दैः प्रत्येतव्यम् , नतु तदन्यः तत्तत्पर्यायोऽपि । शब्दशास्त्रे सङ्केतिता वृद्धिगु. णादिसज्ञा शब्दसञ्ज्ञा, तत्र नायं नियम इत्यर्थः । तदाह-शब्दस्य स्वं रूपं सशीति । बोध्यमित्यर्थः । न च वृद्धिः गुणः इत्यादिसज्ञाविधिबलादेव तत्र तदर्थग्रहणं भविष्यतीति किमशब्दसञत्यनेनेति वाच्यम् । “उपसर्गे धोः किः" इत्यत्र 'घुशब्दे' इति धुधातुनिवृत्यर्थत्वात् 'दाधाध्वदाप' इति सज्ञाकरणस्य 'घुमास्थागा. पाजहातिसां हलि" इत्यादी आवश्यकतया सज्ञाकरणस्य सामथ्योपक्षयादित्यन्यत्र विस्तरः । इदं सूत्रं भाष्ये प्रत्याख्यातम् ।
यत् शब्दस्वरूपम् उपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह-येन विधिः । विधीयत इति विधिः, 'उपसर्गे घोः किः' इति दधातेः भावे किप्रत्ययः । येनेति करणे तृतीया । शास्त्रकृत् विधाने कर्ता । धातोरित्यधिकृत्य एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः । करणं च व्यापारवत् । एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः। ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते । स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्टयन्ततया च विपरिणम्यते । एवं च विशेषणसमर्पकः शब्दः तदन्तस्य स्वस्य च प्रत्यायक इति फलति। तदाह-विशेषणं तदन्तस्य संज्ञा स्यात्स्वस्य चेति । विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य विशेषणसमर्पकशब्दस्य च बोधकः स्यादिति यावत् । ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्यय: स्यात्, इकाररूपाद्धातोश्चेति फलति । यथा-चयः, अयः। केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः। तत्तु शब्देन्दुशेखरे दूषितम् । समातेति । वार्तिकमेतत् । समासविधौ
For Private and Personal Use Only