________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
सिद्धान्तकौमुदी
[ सब्ज्ञा
द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वादिगणे पाठाभावात् अप्राप्तायां सर्वनामसज्ञायां विभाषेयम् । उभयत्र विभाषा यथा — विभाषा श्वेरिति श्वयतेर्लिटि यङि च सम्प्रसारणविभाषेयम् । तत्र लिटि शुशाव, शिश्वाय, शुशुवतुः, शिश्वियतुः, इत्याद्युदाहरणम् । यङि तु शोशूयते इति । अत्र यशे अप्राप्तविभाषैवेयम् । लिटि तु द्विवचनबहुवचनेष्वपित्सु 'वचिस्वपियजादीनां किति' इति नित्यतया सम्प्रसारणं प्राप्तम् । पित्सु त्वेकवचनेषु सम्प्रसारणं न प्राप्तमेव । " असंयोगाल्लिट् कित्” इति कित्त्वस्य अपित्स्वेव प्रवृत्तेः । एवं च प्राप्तेऽप्राप्ते च आरम्भात् 'विभाषा श्वेः' इत्युभयत्र विभाषेति स्थितिः । तत्र यदि "नवेति विभाषा" इति सूत्रं नारभ्येत, तर्हि अनवान्विभाषितः इत्यादियाज्ञिकप्रयोग इव विभाषा श्वेरित्यत्रापि केवलविकल्पः प्रतीयेत । भावः अभावश्चेति द्वयं तावद्विकल्पः । ततश्च विभाषाश्रुतौ प्रवृत्तिस्तदभावश्चेति द्वयमपि विधेयमिति लभ्यते । तंत्र यदि ' विभाषा खेः' इति विकल्पो विधिमुखः - लिटि श्वयतेः सम्प्रसारणं भवति न भवतीति, तर्हि पित्स्वेव विकल्पस्य प्रवृत्तिः स्यात् । तत्र हि सम्प्रसारणस्य वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथमं भावनांशो विधेयः, तस्य पाक्षिकत्वाय न भवतीत्यपि विधेयम् । कित्सु तु प्रवृत्तिर्न स्यात् । तेषु हि वचिस्वपियजादीनां कितीति प्राप्तत्वात् प्रथमं भावनांशो न विधेयः । न भवतीत्यंश एव विधेयः । एवं च उभयांशविधेयत्वालाभात्तत्र विकल्प - विधिरयं न प्रवर्तत तत्र नित्यमेव सम्प्रसारणं स्यात् । यदि तु विकल्पो निषेधमुखःलिटि यतेः सम्प्रसारणं न भवति भवतीति, तर्हि कित्स्वेव प्रवृत्तिः स्यात् । तत्र हि वचिस्वपीति प्राप्तत्वान्न भवतीति प्रथमं विधेयम् । अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम् । पित्सु तु प्रवृत्तिर्न स्यात् । तत्र सम्प्रसारणस्य अप्राप्ततया न भवतीत्यंशस्य प्रथमं विध्यनत्वात् । न च पित्सु विधिमुखः कित्सु निषेधमुखः इत्युभयथापि प्रवृत्तिरिति वाच्यम् । सकृच्छ्रतस्य विभाषाशब्दस्य क्वचिद्विधिमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामर्थ्यात् । आवृत्या तद्बोधने तु स एव दोषः । “नवेति विभाषा" इत्यारम्भे तु श्रुतक्रमानुरोधेन बोधात् नेत्यंशेन कित्सु पूर्व निषेधः प्रवर्तते । ततः किकिद्रूपे सर्वस्मिन् लिटि निःसम्प्रसारणतया ऐकरूप्यं प्रापिते सति, भवति न भवतीत्येकरूपेण विधिमुख एव विकल्पः प्रवर्तते । तदेवमुभयत्र विभाषार्थमिदं सूत्रम् ।
प्राप्तविभाषायां तु नास्योपयोगः, तत्र भवनांशस्य प्राप्तत्वेन विध्यनर्हत्वात् । अप्राप्तविभाषायामपि न तस्योपयोगः, तत्र अभवनांशस्य सिद्धत्वेन विध्यनर्हत्वात् । नचैवमपि "उणादयो बहुलम्" "हृक्रोरन्यतरस्याम्" "छन्दस्युभयथा” “अनुपसर्गाद्वा" इत्यादिविधिषु विभाषा शब्दाभावात् केवलविकल्पविधौ वैरूप्यं दुर्वारमिति वाच्यम्, विभाषाशब्दस्यान सूत्रे विकल्पवाचकशब्दोपलक्षणत्वात् । एवं च लोके ये विकल्प
For Private and Personal Use Only