________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
सिद्धान्तकौमुदी
[तद्धिते ठविधि
वेभ्यो नटः । वेषः कृत्रिम आकारः। (१७६५) तस्मै प्रभवति सन्तापादि. भ्या ५।१।१०१॥ सन्तापाय प्रभवति सान्तापिकः । सानामिकः । (१७६६) योगाद्यश्च ५।१।१०२॥ चाम् । योगाय प्रभवति योग्यः-योगिकः । (१७६७) कर्मण उकञ् ५।१।१०३॥ कर्मणे प्रभवति कार्मुकम् । (१७६८) समयस्त. दस्य प्राप्तम् ५।१।१०४॥ समयः प्राप्तोऽस्य सामयिकम् । (१७६६) ऋतो. रण पा११०५॥ ऋतुः प्राप्तोऽस्य आर्तवम् । [ 'उपवस्त्रादिभ्य उपसंख्यानम्।। उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम्। ] (१७७०) का. लाधत् ५।१।१०७॥ कालः प्राप्तोऽस्य काल्यं शीतम् । (१७७१) प्रकृष्टे ठञ् ५।१।१०८॥ कालात् इत्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽत्येति कालिक वैरम् । (१७७२) प्रयोजनम् ५।१।१०६॥ तदस्य इत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च । (१७७३) विशाखाषाढादण्मन्थ. दण्डयोः ५।१।११०॥ आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोरयोः । यस्यादित्यर्थः । तस्मै प्रभवति । चतुर्थ्यन्तेभ्यः सन्तापादिभ्यः प्रभवतीत्यर्थे ठम् स्यादित्यर्थः । सन्तापाय प्रभवतीति । शत्रूणां पीडायै शक्नोतीत्यर्थः । योगाद्यच्च । चतुः र्थ्यन्तात्प्रभवतीत्यर्थे इति शेषः । कर्मण उकञ् । चतुर्थ्यन्तात्प्रभवतीत्यर्थे इति शेषः । कामुकमिति । उकजि टिलोपः । समयस्तदस्य । तदिति प्राप्तमिति च सामान्ये नपुंस. कम् । समयः प्राप्तोऽस्येत्यथें प्रथमान्तात्समयशब्दात् ठजित्यर्थः । तदित्युत्तरार्थम् । ऋतोरण। प्राप्तमित्येव । प्राप्तोऽस्येत्यर्थे प्रथमान्तात ऋतोरणित्यर्थः । प्राविमिति । अणि ओर्गुणः, आदिवृद्धिः, रपरत्वम् । कालाधत् । तदस्य प्राप्तमित्येव । प्रथमान्ता. त्कालशब्दात् अस्य प्राप्त इत्यर्थे यदित्यर्थः । प्रातःकाले काल्यशब्दस्तु कल्यवदव्यु. त्पन्नं प्रातिपदिकम् । कल्यमेव काल्यं वा । प्रकृष्टे ठञ् । अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालान्दात् ठजित्यर्थः । यतोऽपवादः । प्रकृष्टशब्दस्य विवरणं-दीर्घ इति ।
प्रयोजनम् । तदस्येत्येवेति । अस्य प्रयोजनमित्यर्थे प्रथमान्तामित्यर्थः । इन्द्रमह इति । इन्द्रोत्सव इत्यर्थः । 'मह उद्धव उत्सवः' इत्यमरः। प्रयोजनं फलं कारणं चेति । प्रयुज्यते प्रवृत्त्या निष्पाद्यते इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची। प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः । विशाखाषाढात् । विशाखाशब्दात् आषाढशब्दाच्च प्रथमान्तात् अस्य प्रयोजनमित्यर्थे अण् स्यात् , समुदायेन मन्थे दण्डे च क्रमात् गम्ये सतीत्यर्थः । तदाह-आभ्यामिति । स्थूणामेकां निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्ज्य तयोः रज्ज्वोर्मन्थनदण्डः अर्ध्वमासज्यते । मेन रज्ज्चा भ्रामितेन दधि विलोड्यते इति स्थितिः । तत्र स्थूणा मन्थ इत्युच्यते ।
For Private and Personal Use Only