________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
सिद्धान्तकौमुदी
[अजन्तपुंलिश
-
६४१२६॥ इत्यधिकृत्य । (२३४) अल्लोपोऽनः ६४।१३४॥ अहावयवोऽस. वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः स्यात् । (२३५) रषा. भ्यां नो णः समानपदे ४॥२॥ एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः। यूष्णा । 'पूर्वस्मादपि विधौ स्थानिवदभावः' इति पक्षे तु देशे यूषन् अस् इति स्थिते । अल्लोपोऽनः । अत् इति लुसषष्ठीकं भिन्न पदम् । अन इत्यवयवषष्ठयन्तम् अतो विशेषणम्-अनोऽवयवो योऽकारः तस्य लोप इति । अङ्ग स्येत्यधिकृतम् इहावयवषष्ठयन्तमाश्रीयते। तवान हत्यत्रान्वेति-अङ्गावयवो या अन् तदवयवस्य अकारस्य लोप इति । भस्येत्यधिकृतम् । अन इत्यनेनान्वेति । ततश्चान: असर्वनामस्थानयजादिस्वादिपरत्वं लभ्यते । तदाह-अङ्गावयव इत्यादिना । अनन्तस्य भस्याङ्गस्याकारस्य लोपः स्यादिति प्राचां व्याख्याने तु तक्ष्णेत्यत्र तकारादकारस्यापि लोपप्रसङ्गः । भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अनसा मनसेत्यत्राति. व्याप्तिः । अन इत्यावर्त्य अन्नन्तस्य भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अनस्तक्ष्णेत्यत्रातिव्याप्तिरेव । तस्मादुक्कैव व्याख्येत्यन्यत्र विस्तरः। यूषन् अस् इत्यत्र षकारादकारस्य लोपे यूष - अस् इति स्थिते । रषाभ्याम् । षाभ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यमू । समानशब्द एकपर्यायः। यथा-समानग्रामा वयमिति । आधारसप्तमीबलात् विद्यमानाभ्यामिति लभ्यते । नः इति षष्ठी। तदाह-एकपदस्थाभ्यामिति । एकत्वं चेहाखण्डत्व विवक्षितम् , पदे इत्येतावतैव सिद्धे समानग्रहणसामर्थ्यात् । अन्यथा रामनामेस्यादौ 'अट्कुम्वाङ्' इति णत्वापत्तिः । एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्तः । मातृभोगीणः इत्यत्र णत्वं तु तद्धिताधिकारे वक्ष्यते । यूष्ण इति । शसि रूपम् । यूष्णेति। तृतीयैकवचनम् । नचाल्लोपस्य स्थानिवद्भावात् नकारस्य षात् परत्वं नेति शड्यम् , 'रषाभ्याम् इति षात्परस्य हि नस्य णत्वे कर्तव्ये अल्लोपस्य स्थानिवद्भावो नापेक्षितः । किन्तु णत्वाभावे तदपेक्षा । णत्वाभावश्चाशास्त्रीयत्वान्नातिदेश्यः । स्थानिनि सति यत्कार्य भवति तदेव हि स्थानिवत्सूत्रेणातिदिश्यते । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्येवं कार्याभावस्त्वशास्त्रीयत्वान्नातिदिश्यते इति स्थानिवत्सूत्रे अवोचाम।
यद्यपि 'अचः परस्मिन्' इत्यत्र अशास्त्रीयः कार्याभावोऽप्यतिदिश्यत इत्यभ्यधायि । तथापि नेह तस्यापि सूत्रस्य प्रवृत्तिरस्ति । स्थानीभूतादचः पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्तः । इह चाल्लोपस्थानीभूतादकारात् परस्यैव णत्वविधानादिति भावः । ननु 'अचः परस्मिन्' इति सूत्रे स्थानिभूतादचः पूर्वस्मात् परस्य विधावजा. देशः स्थानिवदिति पक्षोऽपि भाष्ये स्थितः। एवंचात्र लोपादेशस्थानीभूतादकारात्
For Private and Personal Use Only