________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
पद्धतिशब्दो गणे पठ्यते । हिमकाषिहतिषु च' (सू १९२ ) इति पद्भावः । पद्धति:पद्धती । (५०४) पुंयोगादाख्यायाम् ४|१|४८ ॥ या पुमाख्या पुंयोगात्त्रियां वर्तते ततो ङीष् स्यात् । गोपस्य स्त्री गोपी । ' पालकान्तान' ( वा २४६१ )
३८५
बोध्यम् । जननिरिति । 'स्त्रियां क्तिन' इत्यधिकारे 'आक्रोशे नञ्यनिः' इति नजि उपपदे जनेरनिप्रत्ययः, अक्तिन इत्युक्तौ अत्र निषेधो न स्यात् । अतः अक्तिन्नर्थादित्युक्तिरिति भावः । ननु हनधातोः स्त्रियां कर्मणि तिनि 'अनुदात्तोपदेश' इत्यादिना नलोपे हतिशब्दः, तस्य क्तिन्नन्तत्वात् कथं पद्धतिशब्दात् ङोषित्यत आह- क्तिन्नन्तत्वादिति । गणे इति । बह्वादिगण इत्यर्थः । ननु पादाभ्यां हतिरिति विग्रहे 'कर्तृकरणे कृता बहुलम्' इति तृतीयासमासे सुब्लुकि पाद इति इति स्थिते कथं पदादेश:, 'पाद: पत्' इत्यत्र कृतसमासान्तलोपस्यैव पादशब्दस्य ग्रहणात् भत्वाभावाच्च । पादस्य पदाज्यातिगोपहतेषु' इत्यपि न सम्भवति, तस्य आज्यादि. वेव परेषु प्रवृत्तेरित्यत आह- हिमकाषीति । हिमादिषु परेषु पादशब्दस्य पदादेशः स्यादिति तदर्थः ।
पुंयोगात् । पुंयोगादिति हेतौ पञ्चमो । आख्यायामिति पञ्चम्याः सप्तम्यादेशः, 'सुपां स्थाने सुपो भवन्तीति वक्तव्यम्' इत्युक्तेः । माख्येत्यनेन वाचकः शब्दो विवक्षितः, कस्य वाचकः इत्यपेक्षायां पुंयोगादित्युपस्थितत्वात् पुंस इति लभ्यते । तथा च आख्यायामित्यनेन पुंसि प्रसिद्धात् शब्दादिति लभ्यते । पुंयोगादिति स्त्रियामित्यत्रान्वेति । तथाच पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानादिति लभ्यते । तदाहया पुमाख्येत्यादिना । ङोषिति । 'अन्यतो ङीष्' इत्यतस्तदनुवृत्तेरिति भावः । 'वोतो गुणवचनात्' इति पूर्वसूत्रे तु 'गुणवचनात् ङीबाद्युदात्तार्थः" इति वार्तिकात् ङीप् लब्ध इति न तत्रास्यानुवृत्तिः । गोपस्य स्त्रीति । गाः पातीति गोपः 'आतोऽनुपसर्गे कः' । तज्जायायां तु गोरक्षणाभावेऽपि तद्भार्यात्वात् तद्वयपदेशः । ततश्च पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानत्वात् ङीषि 'यस्येति च' इत्यकारलोप इति भावः । हरेः स्त्री, शम्भोः स्त्री इत्यादौ न ङीष् स्त्रीप्रत्ययविधिप्रकरणे अत इत्यनुवृत्तेः । या तु स्वयमेव गाः पाति, नतु गोपस्य स्त्री, सा तु गोपा, तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्त्या पुंयोगादवृत्तेः । नच गोपस्य माता श्वश्रूः मातुलानी वा गोपीति स्थादिति वाच्यम्, 'अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छन्दमपि इति भाष्यस्वारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात् । दुहितरि केकयी देवकी इत्यादयस्तु | गौरादौ पाठ्या इति शब्देन्दुशेखरे स्थितम् । आख्याग्रहणं किम्प्रसूता । अयं हि शब्दो जातप्रसवामाह । स च प्रसवः पुंयोगनिमित्तकः, तन्निमित्ता स्वास्य स्त्रियां वृत्तिः, न त्वयं पुंसि प्रसिद्धः, अतो न ङीष् ।
*
२५ बा०
For Private and Personal Use Only