SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ सिद्धान्तकौमुदी [अपत्याधिकार पदस्याचामादरचो वृद्धिः, पूर्वपदस्य तु वा ढे परे। प्रवाहणस्यापत्यं प्रावाहणेयः प्रवाहणेयः । (१९३०) तत्प्रत्ययस्य च ७।३।२६॥ ढप्रत्ययान्तस्य प्रवाहण. स्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा। प्रवाहणेयस्यापत्यम् प्रावाहणेयिःप्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिाश्रयेण विकल्पेन बाधितुं न शक्यते इति सूत्रारम्भः। ( १९३१) कल्याण्यादीनामिनङ् ४।१।१२६॥ एषामिनका. देशः स्यात् , ढक्च । काल्याणिनेयः, बान्धकिनेयः। (१९३२) कुलटाया वा ४।१।१२७॥ इनमात्र विकल्प्यते । ढक्तु नित्यः पूर्वेणैव । कोलटिनेयः-कौल. टेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थ कुलान्यटति तस्याः 'क्षुद्राभ्यो तेवुगागमश्च । बुकि वकार इत् । उकार उच्चारणार्थः। कित्त्वादन्तावयवः । भौवेय इति । भूर्नाम काचित् , तस्या अपत्यमिति विग्रहः । ढकि एयादेशे प्रकृतेषु कि आदिवृद्धिः । वुगभावे तु ऊकारस्य वृद्धो आवादेशे भ्रावेय इति स्यात्।। प्रवाहणस्य ढे । उत्तरपदस्येत्यधिकृतम् । तद्धितेष्वचामादेः' इत्यतः अचामादेरित्यनुवर्तते । 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति 'अर्धात्परिमाणस्य पूर्वस्य तु वा' इत्यतः पूर्वस्य वेति च । तदाह-प्रवाहणशम्दस्येति । प्रावाहणेयः-प्रवाहणेय इति । शुभ्रादित्वात् ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आका. रस्य वृद्धः फलं तु प्रवाहणेयीभार्य इत्यत्र 'वृद्धिनिमित्तस्य चा इति पुंवत्त्वप्रतिषेध एव । तत्प्रत्ययस्य च । पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते । तच्छब्देन ढप्रत्ययः परामृश्यते । तदाह-ढप्रत्ययान्तस्येति । प्रावाहणेयिः प्रवाहणेयिरिति । शुभ्रादिढगन्तादिन् । ननु पूर्वसूत्रेणैव सिद्धत्वादिदं व्यर्थमित्यत आह-बाह्येति । ढक्प्रत्ययान्तात् बहिर्भूतो य इञ् तन्निमित्ता तद्धितेष्वचामादेः' इति नित्या आदिवृद्धिः। ढाश्रये. णेति । ढप्रत्यये परे विहितेनेति यावत् । तथाविधेन वृद्धिविकल्पेन पूर्वसूत्रविहितेन बाधितुं न शक्यते, भिन्ननिमित्तकत्वादित्यर्थः। पूर्वसूत्रं हि केवलढप्रत्ययान्ते ढप्र. त्ययं परनिमित्तत्वेनाश्रित्य प्रवृत्तं, ढनिमित्तामादिवृद्धि बाधत इति युक्तं, न स्वि प्रत्ययनिमित्तामपि नित्यामादिवृद्धिम् । अतस्तस्या अपि बाधनार्थमिदं सूत्रमि. त्यर्थः । इदं वृद्धिविधिद्वयमपि शुभ्रादिभ्यश्च इत्यत्रैव वक्तुं युक्तम् । कल्याण्यादीनामिना। इनङि डकार इत् । काल्याणिनेय इति । कल्याण्या अपत्य. मिति विग्रहः । बान्धकिनेय इति। बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठ्यन्ते । तेभ्यो ढक् सिद्ध एव । इनमेव तु विधीयते । कुलटाया वा। इनङमात्रमिति । व्याख्यानादिति भावः। पूर्वेणैवेति । 'स्त्रीभ्यो ठक्' इत्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति कुलटा। शकन्ध्वादित्वात्पररूपम् । अत्रेति । 'कुलटाया For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy