SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [तद्धिते प्राग्दीव्यतीय mmmmmmmmmmmmmmmmmmmmmmmmmmmm जलः । गोत्रवुअोऽपवादः । हस्तिपादस्यापत्यं हास्तिपदः, तस्यायं हास्तिपदः (१५१३ ) माणिकस्येकलापश्च ४।३।१३३ ॥ अण्स्यात् । आथर्वणिकस्यायमाथर्वणो धर्म आम्नायो वा । चरणाद्वोऽपवादः । । इति तद्धिते शैषिकप्रकरणम् । अथ तद्धिते प्रारदीव्यतीयप्रकरणम् ॥ ३० ॥ ( १५१४ ) तस्य विकारः ४।३।१३४ ॥ 'अश्मनो विकारे टिलोपो वक्तव्यः' ( वा ४१८५)। अश्मनो विकारः आश्मः । भास्मनः। मार्तिकः । तदन्तादिति । अणन्तात् 'तस्येदम्' इत्यर्थे अनेन ( सूत्रेण ) पुनरणित्यर्थः। इस्तिपादस्येति । हस्तिन इव पादौ अस्येति विग्रहः, 'पादस्य लोप' इति न भवति अहस्त्या. दिभ्य इति प्रतिषेधात् । हस्तिपादस्यापत्यं हास्तिपदः । अत इज बाधित्वा अत एव निपातनादण पदावश्च हास्तिपदस्यायमित्यर्थे अनेन अणिति भावः । गोत्र. मोऽपवादः। आथर्वणिकस्येकलोपश्च। इदं सूत्रमिति कैयटः । वार्तिकमित्यन्ये । अण् स्यादिति । आथर्वणिकशब्दात्तस्येदमित्यर्थे अण् स्यात् । प्रकृतेरिकस्य लोपश्चेत्यर्थः । पाथर्वणिकस्येति । अथर्वणा प्रोक्तो वेदः अथवेत्युपचर्यते, तमधीते आथर्वणिकः । वस. न्तादित्वाट्टक् । आथर्वणिकस्यायमित्यर्थे अनेन अणि, इको लोपे 'दाण्डिनायन' इति टिलोपाभावे, आथर्वण इति रूपमित्यर्थः । धर्म आम्नायो वेति । 'चरणाद्धर्माम्ना. ययोः' इत्युक्तेरिति भावः । ननु तस्येदमित्येव सिद्ध अण्विधिय॑र्थ इत्यत आहचरणावुञोऽपवाद इति । आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः । ___ इति तद्धिते शैषिकप्रकरणम् । अथ विकारार्थप्रत्यया निरूप्यन्ते । तस्य विकारः। विक्रियते इति विकारः, कर्मणि घञ् । प्रकृतेरवस्थान्तरात्मिकां विक्रियां प्राप्त इत्यर्थः । विकार इत्यर्थे षष्टयन्तादणादयः साधारणा वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः । अश्मनो विकार इति । विकारार्थकप्रत्यये परे अवमन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः । अनिति प्रकृतिमा. वापवादः । पाश्म इति । अणि टिलोपे रूपम् । एवं चर्मणो विकारः चार्मः कोशः। 'चर्मणः कोशे' इत्युपसङ्ख्यानाटिलोपः । भात्मन इति । भस्मनो विकार इत्यर्थः । अणि अनिति प्रकृतिभावान टिलोपः। मात्तिक इति । मृत्तिकाया विकार इत्यर्थः । अत्र 'प्राणिरजतादिभ्योऽञ्' 'ओर' 'अनुदात्तादेवच' इत्यादिवक्ष्यमाणापवादविषः यभिन्नमुदाहरणम् । तत्र अश्मन् , भस्मन् , चर्मन् इति त्रयं मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्तम् । मृत्तिकाशब्दोऽपि 'मृदस्तिकन्' इति तिकन्नन्तः । नित्स्वरेणाद्यु. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy