SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ सिद्धान्तकौमुदी स्वादिसन्धि . अथ स्वादिसन्धिप्रकरणम् ॥७॥ 'स्वौजसमौट' (सू१८३) इति सुप्रत्यये 'शिवस्अर्ध्यः' इति स्थिते । (१६२) ससजुषो रुः १२॥६६॥ पदान्तस्य सस्य 'सजुष्' शब्दस्य च रुः स्यात् । जश्त्वापवादः । (१६३) अतो रोरप्लुतादप्लुते ६।१।११३॥ अप्लुतादतः परस्य रोः ठः स्यादप्लुतेऽति । 'भोभगोअघो-' (सू १६७) इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्योत्वविधेः सामर्थ्यात्। (१६४) प्रथमयोः पूर्वसवर्णः ६।१।१०२ ॥ अकः प्रथमाद्वितीययोरचि परे ससजुषो रुः । ससजुषोः रुः इति छेदः । 'रो रि' इति रेफलोपः । सश्च सजूश्च ससजुषो तयोरिति विग्रहः । रुविधौ उकार इत् । तत्फलं त्वनुपदमेव वक्ष्यते । स इति सकारो विवक्षितः । अकार उच्चारणार्थः। पदस्येत्यधिकृतं सकारेण सजुष्. शब्देन च विशेष्यते । अतस्तदन्तविधिः । सकारान्तं सजुषशब्दान्तं च यत् पदं तस्य रु: स्यादिति । सच अलोऽन्त्यस्येत्यन्त्यस्य भवति । ततश्च फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्य चेति । सजुष्शब्दान्तं यत पदं तदन्तस्य षकारस्येत्यर्थः । ततश्च सजुषो सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् । सजुषशब्दान्तं यत्पदमिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्तिः । नच सजूरित्यत्राव्याप्तिः शंक्या, व्यपदेशिवद्भावेन तदन्तत्वात् । 'व्यपदेशिवदावोऽप्रातिपदिकेनः इति 'ग्रहणवता प्रातिपदिकेन तदन्तविधिनः इति च परिभाषाद्वयं प्रत्ययग्रहणे यस्मादितिविषयम् , नतु येन विधिरितिविषयमिति 'असमासे निष्कादिभ्यः' इति सूत्रे भाष्ये स्पष्टम् । ननु शिवस् इति सकारस्य 'झलाञ्जशोऽन्ते' इति जश्त्वेन दकारः स्यात् , जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वादित्यत आह-जश्त्वापवाद इति। तथा च रुत्वस्य निरवकाशत्वान्नासिद्धत्वमिति भावः। तदुक्तं भाष्ये 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य' इति, 'अपवादो वचनप्रामाण्यात्' इति च । शिवर अर्ध्य इति स्थिते । अतो रोः । 'ऋत उदित्यतः उदित्यनुवर्तते । अत इति पञ्चमी । एकः पदान्तादतीत्यतः अतीत्यनुवर्तते । तदाह-अप्लुतादित्यादिना । नन्वत्र उत्वं बाधित्वा 'भोभगोअघोअपूर्वस्य योऽशि' इति यत्वं परत्वात् स्यात् । नच यत्वस्यासिद्धत्वात् उत्वं निर्बाधमिति वाच्यम्, कृतेऽपि उत्वे तस्य स्थानिवत्त्वेन रुत्वायत्वस्य दुनिवारत्वात् अत आह-यत्वस्यापवाद इति । यद्यपि भो भगो अघो इत्यंशे उत्वं नापवादः, तथाप्यपूर्वस्येत्यशे उत्वमपवादः, प्राप्त एव अपूर्वकस्य रोर्यत्वे अतो रोरित्यख्यारम्भा. दिति भावः । ननु उत्वं प्रति रोरसिद्धत्वात् कथमुत्वं तस्येत्यत आह-उत्वं प्रतीति । शिव उ अर्घ्य इति स्थिते । प्रथमयोः । अकः सवणे इत्यतः अक इति, इको यण For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy