SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १९ ] बालमनोरमासहिता। ५७६ - चैत्रः । (८३८) न कोपधायाः ६॥३॥३७॥ कोपधायाः स्त्रियाः न पुंवत् । पाचिकाभायः । रसिकामार्यः। मद्रिकायते । मद्रिकामानिनी । 'कोपधप्रतिषेधे तद्धितवुग्रहणम्' ( वा ३९३१)। नेह । पाका भार्या यस्य सः पाकभार्यः । (३६) सज्ञापूरण्योश्च ६।३।। अनयोने पुंवत् । दत्ताभार्यः। दत्तामा. निनी। दानक्रियानिमित्तः स्त्रियां पुंसि च सम्ज्ञाभूतोऽयमिति भाषितमुस्कत्वमस्ति । णिनिरित्यनुवृत्तौ 'मन' इति णिनिप्रत्ययः, उपपदसमासः, सुब्लुक, असमानाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्त्वे टापो निवृत्तौ 'ऋन्नेभ्यः' इति डीपि दर्शनीयमानिनीति रूपम् । या त्वात्मानमेव दर्शनीयां मन्यते तस्या दर्शनीयायाः 'स्त्रियाः पुंवत्' इत्येव पुंवत्वं सिद्धमिति ध्वनयितुं स्वभिन्नामित्युक्तम् । एकस्या एवं दर्शनीयायाः मनधात्वर्थ प्रति कर्मत्वकर्तृत्वसम्भवेऽपि वास्तवाभेदेन मानिनीशब्द. सामानाधिकरण्यसत्त्वादिति भावः । अथास्त्रीलिङ्गे उत्तरपदे उदाहरति-दर्शनीयामि• ति । स्त्रियमित्यनन्तरमात्मानमिति शेषः । आत्मानं यः दर्शनीयां स्त्रियं मन्यते सः दर्शनीयमानी चैत्र इत्यन्वयः। अत्र उत्तरपदवाच्यस्य मानिनः वस्तुतो दर्शनीयस्त्री. भेदेऽपि आरोपिततदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुलिङ्गत्वात् तस्मिन् परे पुवत्त्वं न प्रासमित्यनेन तद्विधिरिति भावः । न कोपधायाः । पाचिकामार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल् । अकादेशटावित्त्वानि, पुंवत्त्वनिषेधश्च । पुंवत्त्वे टाबित्त्वयोनिवृत्तिः स्यात् । रसिकेति । रसोऽस्या अस्तीति रसिका, 'अत इनिठनौ' इति ठन् । ठस्येकः, टाप, पुंवत्त्वनिषेधः । पुंवत्त्वे तु टापो निवृत्तिः स्यात् । मद्रिकायते इति । मद्राख्ये देशविशेष भवा मद्रिका मद्रवृज्यो कन्' टाप् , इत्त्वम् । मद्रिकेवाचरतीत्यर्थः । 'क्यङ्मानिनोश्च' इति पुंवत्त्वं प्राप्तमिह निषिध्यते । मद्रिकामानिनीति । मद्रिकां मन्यत इत्यर्थे 'मनरचा इति णिनिः । उपपदसमासः । इहापि 'क्यङ्मानिनोश्च' इति पुबत्त्वं प्राप्तं निषिध्यते । उभयत्रापि पुंवत्त्वे टाबित्वयोनिवृत्तिः स्यात्। तद्धितवुग्रहणमिति। 'न तद्धितवुकोपधाया' इति सूत्रं पठनयीमिति यावत् । तद्धितसम्बन्धी सम्बन्धी च यः ककार तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति । मद्रिकायते इति । तद्धितकोपधोदाहरणम् । पचिकामार्य इति तु वुसम्बन्धिकोपधोदाहरणम् । तद्धितवुग्रहणस्य प्रयोजनमाह-नेहेति । पाकेति । 'अर्भकपृथुकपाका वयसि' इत्युणादिषु कप्रत्ययान्तो निपातितः । अयं तद्धितस्य प्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः । ननु दत्ताशब्दस्य सज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वाभावात् 'स्त्रियाः पुंवत्' इत्यस्य प्रस. क्तेरेवाभावात् किं तनिषेधेनेत्यत आह-दानक्रियानिमित्त इति । दत्तशब्दोऽयं डित्थादिशब्दवन, किन्तु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च सम्ज्ञाभूतः प्रवृत्तः, अतस्त For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy