SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १९] बालमनोरमासहिता। ५४५ wwwne १३५॥ एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः। सुरभिगन्धिः । 'गन्धस्येत्त्वे तदेकान्तग्रहणम्' ( वा ३३६८) । एकान्तः एकदेश इवाविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह सु शोभनाः गन्धाः द्रव्याण्यस्य सुगन्ध आपणः । (es५) मल्पाख्यायाम् ५।४।१३६॥ सूपस्य गन्धो लेशो यस्मिस्तत्सूपगन्धि भोजनम् । घृतगन्धि 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः।' इति विश्वः। (७६) उपमानाञ्च ५॥ गन्धस्य इत् इति च्छेदः । एभ्य इति । उत् , पूति, सु, सुरभि एतेभ्य इत्यर्थः । इकारोऽन्तादेश इति । पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः । समासान्ताधिकारात् 'आदेः परस्य' इति न भवति । उद्गन्धिरिति । उद्तो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दः असुरभौ। पूतिः गन्धो यस्येति विग्रहः । सुगन्धिरिति । शोभनो गन्धो यस्येति विग्रहः । सुरभिगन्धिरिति । सुरभिः गन्धो यस्येति विग्रहः । सर्वत्र 'वायुः' इति विशेष्यम्। तदेकान्तेति । तस्य विशेष्यभूतद्रव्यस्य एकान्तः एकदेश इव प्रतीयमान इत्यर्थः । अन गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशक्य एकान्तशब्दः एकदेशवद. विभक्त लाक्षणिक इत्याह-एकान्तः एकदेश इवेति । सुगन्धि पुष्पं सलिलं चेति । अत्र गन्धस्य पुष्पात् सलिलाच्च द्रव्यात् पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति। सु इत्यस्य व्याख्यानं शोभमा इति । गन्धा इति । गन्धवन्त इत्यर्थः । 'गुणवचनेभ्यो मतुपो लुगिष्टः इति लुक । द्रव्याणीति । चन्दनादीनीत्यर्थः । गन्धा इत्यस्य विशे. ध्यमेतत् । गन्धशब्दस्य नपुंसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात पुंस्त्वं युज्यते । 'गन्धस्तु सौरभे नृत्ये गन्धके गलेशयोः। स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः।' इति कोशात् । सुगन्ध आपण इति। अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्या विशेष्यभूतापणापेक्षया पृथक् लक्ष्यमाणत्वादित्त्वं नेति भावः । अल्पाख्यायाम् । अल्प. वचने सति गन्धशब्दस्य इकारोऽन्तादेशः स्यात् बहुव्रीहावित्यर्थः । लेश इति गन्धशब्दस्य विवरणम् । सूपस्य गन्धः यस्मिन्नित्येव विग्रहः । सूपगन्धि भोजनमिति । उत्पूतिसुसुरभिपूर्वकत्वाभावादेकान्तत्वाभावाचाप्राप्ते वचनमिदम् । व्यधिकरणप. दानामपि कचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते । धृतगन्धीति । घृतस्य गन्धः लेशः यस्मिनिति विग्रहः । गन्धशब्दस्याल्पवाचित्वे प्रमाणमाह-गन्धो गन्धक इति । उपमानाच्च । उपमानवाचिपूर्वपदात् परस्यापि गन्धशब्दस्य इकारोऽ. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy