________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३०
सिद्धान्तकौमुदी
[कारक
भवने कर्तृदोलभ्यप्रयुक्तं दौलभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन सम्बध्यते । सर्पिषः इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम् , सम्भावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः। अपि स्तुहि, अन्ववसर्गः कामचारानुज्ञा । धिग्देवदत्तम् अपि स्तुयावृषलम् ,
प्रकरणात् औचित्यात् सर्पिष इत्यवयवषष्ठाबलाच्च बिन्दुरिति गम्यते, तमेवापिशब्दो योतयति, सच बिन्दुरपिशब्दद्योत्यः कर्ता प्रकृत्यर्थे सम्भावनाविषये भवने स्वस्य बिन्दोर्दोर्लभ्यात् तदेव दौर्लभ्यं पुरस्कृत्यान्वेति, सम्भावनाविषयत्वबोधे दौर्लभ्यस्यापि सम्भावनाविषयतया अनुभवसिद्धत्वात् । तदिदं दौर्लभ्यमपि अपिशब्दो योतयति । एवं च बिन्दोः कर्तृविशेषरूपेण द्योत्योक्तदौर्लभ्यसम्बन्धेन च स्यादित्यत्रा. न्वयः । तदाह--तस्या एवेति । सम्भावनाया एवेत्यर्थः । कर्तुबिन्दोर्दोर्लभ्यात् भवन. क्रियायां यत् दौर्लभ्यं तद्योतयन् अपिशब्दः स्यादित्यनेन सम्बध्यत इत्यर्थः । ननु सपिरेव कर्तृत्वेनान्वेतु इत्यत आह-सर्पिषः इति । सम्बन्ध इत्यनन्तरं वर्तत इति शेषः । एवंच सपिरवयवबिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती बिन्दुकर्तृका सम्भावनाविष. यीभूता सत्तेति बोधः । इयमेवेति । बिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । ननु कर्मप्रवचनीयेनापिना अन्वयसत्त्वात् सपिषो द्वितीया स्यादित्यत आह-द्वितीया तु नेति । कुत इत्यत आह-सर्पिष इति । सर्पिषः बिन्दुनैव योगः, न त्वपिनेत्येवं सपिक इति षष्ठी स्वित्यादिसन्दर्भण उक्तत्वादित्यर्थः। कर्मप्रवचनीयद्योत्यसम्बन्धप्रतियोगित्वमेव कर्मप्रवचनीययुक्तत्वम् , प्रकृते च अपिद्योत्यस्य उक्तसम्बन्धस्य बिन्दुरेव प्रतियोगी नतु सपिरिति भावः । तदेवं पदार्थद्योतकमपिमुदाहृत्य सम्भावना द्योतकमपिमुदाहरति-अपि स्तुयाद्विष्णुमिति । 'सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे' इति लिङ्।
सम्भावनपदं व्याचष्टे-सम्भावनमित्यादिना। अवाङ्मनसगोचरं विष्णुमपि स्तु. यात् । स्तोतुं शक्त इत्यर्थः। अत्युक्तिरियम् अवाङ्मनसगोचरस्य विष्णोः केनापि स्तोतुमशक्यत्वात् । तत्र कर्मप्रवचनीयत्वे उपसर्गत्वबाधात् 'उपसर्गात् सुनोति' इति षत्वं न । अन्ववसर्गद्योतकमपिमुदाहरति-अपि स्तुहीति । स्तुहि वा, नवा,. यथेष्टं कुवित्यर्थः । अन्ववसर्गपदं व्याचष्टे-अन्ववसर्गः कामचारानुशेति । "प्रेषातिसर्ग' इति लोट् । गर्हाद्योतकमपिमुदाहरति-अपि स्तुयाद् वृषलमिति । 'गीयां लड. पिजात्वोः' इति लटं बाधित्वा परत्वादन्तरङ्गत्वाच्च सम्भानायां लिङ। अत्र वृषलस्य निन्द्यत्वात् तत्स्तुतेनिन्द्यत्वं गम्यमानमपिशब्दो द्योतयति । धिग्देवदत्त
For Private and Personal Use Only