________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४२8
इति निघातो न (५५५) सुः पूजायाम् १।४।६४॥ सु सिकम् , सु स्तुतम् । अनुपसर्गत्वान्न षः। पूजायाम् किम् । सुषितं किं स्यात् तवात्र । क्षेपोऽयम् । (१५६) मतिरतिक्रमेण च १४५॥ अतिक्रमणे पूजायां च अतिः कमप्रवचनीयसम्ज्ञः स्यात् । अति देवान्कृष्णः । (५५७) मपिः पदार्थसम्भावना. ऽन्ववसर्गगर्दासमुच्चयेषु १।४।६६॥ एषु घोत्येष्वपिरुक्तसञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । सम्भावनायो लिङ् । तस्य एव विषयभूते
-
कत्वव्यवहारः । उक्तं च भाष्ये-अनर्थान्तरवाचिनौ धातुनोक्तक्रियामेवाहतुः" इति । एवंच क्रियायोगाभावात् गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता । सुः पूजायाम् । कर्मप्रवचनीय इति शेषः । सु सिक्तं सु स्तुतमिति । अत्र सोः कर्मप्रवचनीयत्वे प्रयोजनमाह-अनुपसर्गस्वान्न प इति । 'उपसर्गात् सुनोति' इत्यनेनेति शेषः । पूजायां किमिति । सुना पूजायाः नित्यं प्रतीतेः प्रश्नः । सुषिक्तं किं स्यात् तवासि । त्वया सम्यक सिक्तं, किन्तु अत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चिदपीत्यर्थः । क्षेपोऽयमिति । निन्दात्र गम्यत इत्यर्थः । सेकक्रियाकर्तुः पूज्यत्वे गम्य एवात्र कर्म. प्रवचनीयत्वम् । तदभावात् 'उपसर्गात् सुनोति' इति षत्वमिति भावः । अतिरतिक्रमेण च । चकारात् पूजायामिति समुच्चीयत इत्याह-पूजायां चेति । अतिक्रमणमु. चितादाधिक्यम् । अति देवान् कृष्णः इति । प्रपञ्चसंरक्षणविषये देवेभ्योऽधिकः कृष्ण इत्यर्थः । देवानां पूज्य इति वा । आद्येऽर्थे 'कुगतिप्रादयः' इति समासो न । 'स्वती पूजायाम्। इति नियमात्। द्वितीये त्वनभिधानान्नेत्याहुः।।
अपिः पदार्थ । पदार्थश्च सम्भावनञ्च अन्ववसर्गश्च गहरे च समुच्चयश्चेति द्वन्द्वः। एषु द्योतकतया विद्यमानः अपिः कर्मप्रवचनीय इत्यर्थः । तदाह-एष्विति । अप्रयुज्य. मानस्य पदान्तरस्यार्थः पदार्थः, तद्योतकमपिमुदाहरति-सर्पिषोऽपि स्यादिति । यत्रातिदोलभ्यादत्यल्पमाज्यं भुनानेभ्यो दीयते तदुपहासार्थमिदं वाक्यम् । अत्रा. पेः कर्मप्रवचनीयत्वे प्रयोजनमाह-अनुपसर्गत्वान्न ष इति । 'उपसर्गप्रादुर्ध्याम्' इत्यनेनेति शेषः । अपिद्योत्यं पदार्थ विशदयितुमाह-सम्भावनायां लिङिति । 'उपसंवादा. शङ्कयोश्च' इति सूत्रे 'उपसंवादाशङ्कयोलिङ। इति पठितवचनेनेति शेषः । तत्र आशङ्का उत्कटान्यतरकोटिका शङ्का, सम्भावनैवेति भावः । सा च प्रकृत्यर्थगता भवति, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः। अस्धातोश्च भवनमर्थः, 'अस भुवि' इत्युक्तेः । भवनं च सत्ता, 'भू सत्तायाम्' इत्युक्तेः। ततश्च सम्भावना. विषयीभूतभवनार्थकादस्धातोः कर्तरि लिङि इनसोरलोपे यासुडागमादौ स्यादिति रूपम् । तेन च सम्भावनाविषयभवनाश्रयः कर्ता अवगतः, सच कर्ता क इत्यकासायां
For Private and Personal Use Only