________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२२
सिद्धान्तकौमुदी
(१८) सरूपाणामेकशेष एकविभक्तौ १|२| ६४ ॥ एकविभक्तौ यानि सरूपा
1
चने सुप्रत्यये सति, उकारस्य इत्वेन लोपे, ससजुषोरिति रुत्वे, खरवसानयोरिति विसर्ग इत्यर्थः । सु इत्युकारस्तु अर्वण सावित्यादौ विशेषणार्थः । असीत्युक्ते हि असकारादावित्यर्थः स्यात् । ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्न प्रवर्तेत । नचात्र रोरसुप्तत्वात् तदन्तस्य परत्वाभावात् रेफस्य पदान्तत्वाभावात् कथमिह विसर्ग इति वाच्यम् । स्थानिवद्भावेन रोः सुप्त्वात् । नच स्थानिवद्भावे कर्तव्ये त्रैपादिकस्य रोरसिद्धत्वं शक्यम्, 'इदुदुपधस्य चाप्रत्ययस्य' इति अप्रत्ययग्रहणेन स्थानिवत्वातिदेशे शेरसिद्धत्वाभावज्ञापनात् । तत्र ह्यप्रत्ययग्रहणम् अग्नि-करोति, कविभि-कृत'मित्यादौ विसर्गपर्युदासार्थम् । स्थानिवत्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यैवाभावात् तद्वैयथ्यं स्पष्टमेवेत्यलम् । राम इति ।
'रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि ।” इति रामपदेनासौ परं ब्रह्माभिधीयते । इति श्रुतिः ।
[ अजन्तपुल्लिङ्ग
'करणाधिकरणयोश्च' इत्यधिकारे 'हलश्च' इत्यधिकरणे घञ् । कृत्तद्धितेति प्रातिपदिकत्वम् । अव्युत्पन्नः संज्ञाशब्दो वा । तथा सति अर्थवदिति प्रातिपदिकत्वम् ।
अथ प्रातिपदिकार्थतद्वित्वादिविवक्षायां प्रातिपदिकस्य द्वित्र्यादिप्रयोगप्राप्ताविदमारभ्यते - सरूपाणाम् | एकविभक्ताविति सरूपाणामित्यत्रान्वेति । समानं-रूपं येषां तामि सरूपाणि । ज्योतिर्जन पदेत्यादिना समानस्य सभावः । निर्धारण षष्ठी । वृद्धो यूनेत्युत्तरसूत्रादेवेत्यपकृष्यते । शिष्यत इति शेषः । कर्मणि घञ् । एकश्वासौ शेषश्चेति पूर्वकालैकेति समासः । एकस्यां विभक्तौ परतः सरूपाणामेव दृष्टानां मध्ये एकः शिष्यत इति फलति । तदाह - एकविभक्तावित्यादिना । एवेति किम् । मातृशब्दस्तावज्जननीवाची, परिच्छेवाची च । तत्र मातृभ्यामिति भ्यामादौ क्वचित्सारूप्ये सत्यपि, औजसादिषु मातरौ माताराविति वैरूप्यदर्शनान्नैकशेषः । यद्यपि कतिपयविभक्तौ उक्तयोर्मातृशब्दयोः सारूप्येणैव दर्शनमस्ति । तथापि एकस्यामपि विभक्तौ परतः विरूपाणि न दृष्टानीत्यर्थो विवक्षितः । एतद्द्योतनायैव एक विभक्तावित्यत्र एकग्रहणम् । एवकारापकर्षसिद्धार्थकथनपरम् एकग्रहणं स्पष्टार्थमेवेति केचित् । एकशेष इत्येकपदोपादानं तु द्विबहुनामपि शेषो मा भूदित्येतदर्थम् । शेषपदानुपादाने तु सरूपाणां स्थाने एक आदेशः स्यात् । ततश्च अम्बश्च अश्वश्चेति द्वयुदात्तवतः स्थाने द्वयुदात्तवानादेशः स्यात् । तन्निवृत्त्यर्थं शेषग्रहणम् । एकविभक्ताविति सारूप्ये उपलक्षणम् । न तु विभक्तौ परतः एकशेषो भवतीति व्याख्यानमुचितम् जननीपरिच्छेत्तवाचिनोरेकशेषापत्तेरित्यादि प्रपञ्चितं प्रौढमनोरमायाम् । अत्र 'तिष्यपुनर्वस्वोर्नक्षत्र हुन्द्रे' इति पूर्वसूत्रात् इन्द्र इत्यनुवृत्त्य द्वन्द्वे प्रसक्त इति व्याख्येयम् । ततश्च देवदेवः राजराज
For Private and Personal Use Only