________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९
बालमनोरमासहिता।
५६५
मित्यर्थः । (३०) मनेकमन्यपदार्थे २२२॥२४॥ अनेक प्रथमान्तमन्यपदार्थे वतमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधि. करणानामिति च फलितम् । प्राप्तमुदकं यं सः प्राप्तोदको ग्रामः । ऊढरथोऽनड्वा. न् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः। वीरपुरुषको प्रा. मः । प्रथमाथे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिभुक्तमस्य ।
अनेकमन्यपदार्थे । प्रथमान्तमिति । शेषग्रहणानुवृत्तिलभ्यमिदम् । एवं च सुप्सुपेति नानुवर्तते, प्रयोजनाभावात् । अनेक सुबन्तमिति पाठेऽपि प्रथमान्तमित्यर्थः । अन्येति । उपस्थितप्रथमान्तातिरिक्तत्यर्थः । एवञ्च पञ्चभिर्मुक्तमन्नं यस्य सः पञ्चभुक्तः इति बहुव्रीहिनिवृत्त्यर्थं 'बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्' इति वातिक यदाष्ये स्थितं, यच्च वृष्टे देवे यो गतः सः वृष्टदेव इति बहुव्रीहिनिवृत्यर्थे 'अप्रथमा. विभक्त्यर्थे बहुव्रीहिर्वक्तव्यः' इति वार्तिक, तदुभयमपि न कर्तव्यमित्याह-अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितमिति। शेषग्रहणादिति शेषः । शेषग्रहणात् प्रथमान्त इति लभ्यत इति हि भाष्यम् । पञ्चभिर्भुक्तमस्य इत्यत्र च समस्यमानपदयोरेकस्याप्रथमान्तत्वान्न बहुवीहिरिति फलितम् । प्रथमान्ताति. रिक्तस्य पदल्यार्थे वर्तमान समस्यते इत्यर्थाश्रयणावृष्टे देवे गतः इत्यत्रापि न बहुवीहिरिति फलितमिति भावः । तत्र द्वितीयार्थबहुव्रीहिमुदाहरति-प्राप्तमिति । 'गत्यर्थाकर्मक' इति कतरिक्तः । अत्र विग्रहवाक्ये प्रामकर्मकप्राप्तिकर्तृ उदकमित्येवं ग्रामस्य विशेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः । समासे तु एकार्थीभावमहिम्ना उदककर्तृकप्राप्तिकर्मीभूतः ग्राम इत्येवं ग्रामस्य विशेष्यतया, तद्विशेषण. तया तु प्राप्तस्य उदकस्य बोधः । एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः । अथ तृतीयार्थबहुव्रीहिमुदाहरति-ऊढरथोऽनडवानिति । ऊढो रथो येनेनि विग्रहः । अथ चतुर्थ्यर्थबहुव्रीहिमुदाहरति-उपहृतपशू रुद्र इति। उपहृतः पशुः यस्मै इति वि. ग्रहः । अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति-उद्धृतोदना स्थालीति। उद्धृतः ओदनः यस्या इति बहुव्रीहिः । अथ षष्ठयर्थबहुव्रीहिमुदाहरति-पीताम्बरो हरिरिति। पीतम. म्बरं यस्येति विग्रहः । अथ सप्तम्यर्थबहुव्रीहिमुदाहरति-वीरपुरुषको ग्राम इति । वीराः पुरुषाः यस्मिन्निति विग्रहः । शेषाद्विभाषा' इति कप् । अत्र कर्मादीनां समा. सेनाभिहितत्वात् प्रथमैव । प्रथमार्थे तु नैति । अन्यपदार्थशब्देन प्रथमान्तातिरिक्त. द्वितीयाद्यन्तार्थस्यैव विवक्षितत्वादिति भावः। व्यधिकरणानामपि नेति । अनेकं प्रथमान्तमित्युक्तेरिति भावः।
For Private and Personal Use Only