________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६८
सिद्धान्तकौमुदी
[ अच्सन्धि
अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णुदयः । 'अचि' किम् । कुमारी शेते । 'नाज्झलौ' ( सू १३ ) इति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । ‘अकः’ किम् । हरये । 'अकोऽकि दीर्घः' इत्येव सुवचम् । 'ऋति सवर्णे ऋ वा' ( वा रयोरित्यधिकृतम् । तदाह - अकः सवर्णेऽचीत्यादिना । दैत्यारिरिति । दैत्य अरि इति स्थिते द्वयोरकारयोरेको दीर्घः आकारः, स्थानसाम्यात् । श्री ईश इति स्थिते ईकारयोरेकः ईकारः । विष्णु उदय इति स्थिते उकारयोरूकारः । अत्राचीत्यनुवृत्तेः किं प्रयोजनमिति पृच्छति - प्रचि किमिति । कुमारी शेत इति । अचीत्यननुवृत्तौ ईकारस्य शकारस्य व तालुस्थानविवृतप्रयत्नसाम्येन सवर्णतया तयोदीर्घः ईकार एकादेशः - स्यात् । तन्निवृत्त्यर्थमचीत्यनुवर्तनीयमिति भावः । ननु ईकारशकारयोः स्थानप्रयनसाम्येऽपि न सावर्ण्यम्, नाज्झलाविति निषेधात् । अतः कुमारी शेत इत्यत्र अकस्वर्ण इत्यस्याप्रसक्तेः अचीत्यनुवृत्तिर्व्यर्यैवेत्यत आह- नाज्झलावितीति । नाज्झलाविति सावर्ण्यनिषेधो वर्णसमाम्नायिकानामेव नतु दीर्घप्लुतानामपि, आदिरअन्त्येन सहेतेत्यनेन वार्णसमाम्नायिकानामेव अच्शब्दवाच्यत्वावगमात् । अत ईकार'शकारयोः सावर्ण्यसत्त्वात् कुमारी शेत इत्यत्रातिप्रसङ्गः स्यादित्यचीत्यनुवृत्तिरावश्यकीत्यर्थः । ननु वर्णसमाम्नायिकानामेव अचशब्दवाच्यत्वेऽपि अच्शब्दोपस्थितैः अकारादिभिः ह्रस्वदीर्घप्लुतानामपि ग्रहणं भवति, अणुदित्सूत्रबलात् । अत ईकार'शकारयोर्न सावर्ण्यप्रसक्तिरित्यजनुवृत्तिर्व्यर्थं वेत्यत आह- ग्रहणकेति । अणुदित्सवर्णस्येति ग्रहणकसूत्रं हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रमिदं न लब्धात्मकम् । तद्धि सवर्णपदघटितत्वात् सवर्णपदार्थावगमोत्तमेव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थ बोधयदपि नाज्झलाविति अपवादविषयं परिहृत्य तदन्यत्रैव पर्यवसानं लब्ध्वा स्वकार्यक्षमतामश्नुते । उक्तं च- 'प्रकल्प्यापवादविषयमुत्सर्गोऽभिनिविशते' इति । एवं च अणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रालब्धात्मकतया नाज्झला वित्यत्र अज्ग्रहणेन दीर्घप्लुतानां ग्रहणाभावेन ईकारशकारयोः सावर्ण्यनिषेधाभावेन सावर्ण्यसत्त्वात् कुमारी शेत इत्यत्र अकः सवर्ण इति प्राप्तौ तन्निवृत्त्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थः । तदेतत् नाज्झलाविति सावर्ण्यनिvat reपीति ग्रन्थव्याख्यावसरे प्रपञ्चितम् । कोऽकिदीर्घ इत्येव सुवचमिति । एवं च सवर्णग्रहणं न कर्तव्यमिति लाघवम् । दध्युकार इत्यत्र तु यथासंख्याश्रयणान्नातिप्रसङ्गः । ततश्च अचीत्यनुवृत्तिरपि नाश्रयणीयेति भावः ।
ऋति ऋवा इति वार्तिकम् अकः सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति — ऋति सवर्णे ऋ वा । अक इत्यनुवर्तते । एकः पूर्वपरयोरिति च । अकः सवर्णे
--
For Private and Personal Use Only