________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५६
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
रणे स्त्रीलिङ्गे उत्तरपदे, न तु पूरण्यां प्रियादौ च परतः । ' गोत्रियोः - ( सू ६५६ ) इति ह्रस्वः । चित्रा गावो यस्यैति लौकिकविग्रहे 'चित्रा अस् गो अस्' इत्यलौकिकविप्रहे चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् - चित्राजरतीगुः - जरतीचित्रागुर्वा । ए दीर्घातन्वी
रूपमिति । स्त्रियामिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं किन्तु स्त्रीलिङ्गपरम् । तच्च 'अलुगुत्तरपदे' इत्यधिकृते उत्तरपदेऽन्वेति । तदाह - स्त्रीलिङ्गे उत्तरपदे इति । अपूरणीप्रियादिष्वित्येतद्वयाचष्टे - - न तु पूरण्यां प्रिथादौ तु परत इति । पूरणीति स्त्रीलिङ्गनिर्देशात् स्त्रीलिङ्गः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयम् । तुल्ये प्रवृत्तिनिमित्ते इति किम् कुटीभार्यः । अत्र पुंवत्वं न भवति, कुटीशब्दो घटे पुंलिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदात् । स्त्रीप्रत्ययः पुंवत्स्यादित्युक्ते तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत् । ततश्च पट्वी भार्या यस्य सः पटुभार्यः इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लोपे तस्य 'अचः परस्मिनू' इति स्थानिवत्त्वादुकारस्य यण् स्यात् ।
1
"
1
ह्रस्व इति । चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया, विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति चित्रगोशब्दे ओकारस्य 'गोखियोः इत्युकारो हस्व इत्यर्थः । ननु चित्रा गाव इति लौकिकसमा. साभ्युपगमे सुपो लुकः प्राक् चित्रा अस् इत्यत्र पूर्वसवर्णदीर्घे गो अस् इत्यत्र पूर्वरूपे च एकादेशे कृते तस्य परादिवत्त्वेन आसो लुकि चित्रशब्दे अकारो न श्रूयेत चित्रगुरित्यत्र उकारश्च न श्रूयेत, पूर्वान्तवत्वे तु परिशिष्टस्य सकारमात्रस्य सुप्त्वाभावाल्लुक् न स्यादित्यत आह- चित्रा अस् इति । गोशब्दस्य स्त्रीलिङ्गत्वात् तद्विशेषण. त्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः । ' प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति न्यायात् प्रागेव पूर्वसवर्णदीर्घात् सुब्लुगिति भावः । चित्रगुरिति । बहुव्रीहौ हस्वत्वे चित्राशब्दस्य पुंवत्त्वमिति भावः । रूपवद्भार्यं इति । रूपवती भार्या यस्येति विग्रहः । अत्र उपसर्जनह्रस्वः । रूपवतीशब्दस्य पुंवत्वम् । ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः, 'सुप् सुपा' इत्येकस्वस्य विवक्षितत्वादित्यत आह-- श्रनैकोक्तेरिति । शेषग्रहणात् प्रथमान्तमिति लब्धम् । एकस्य प्रथमान्तस्य समासो नोपपद्यते, समास इत्यन्वर्थं संज्ञाविज्ञानात् । ततवार्थादनेकं प्रथमान्तमिति सिद्धे पुनरनेकग्रहणात् द्विबहूनां प्रथमान्तानां बहुवीहिरिति
स्पष्टमिति भावः । श्रत्रेति । त्रिपदबहुव्रीहावित्यर्थः । चित्राजरतीगुः, जरतीचित्रागुर्वेति । गां प्रति चित्रात्वस्य जरतीत्वस्य च विशेषणत्वाविशेषात् अन्यतरस्य 'सप्तमीविशेषणे बहव्रीहौ' इति पूर्वनिपात इति भावः । एवं दीर्घेति । दीर्घे तन्व्यौ जङ्घे
For Private and Personal Use Only