________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[चातुरर्षिक
मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । 'आग्नेयो वै ब्राह्मणो देवतया' इति तु शैषिकेऽर्थे 'सर्वत्राग्नि--(वा २६८९) इति ढक् । (१२२७) कस्येत् ४।२।२५॥ कशब्दस्यदादेशः स्यात्प्रत्ययसनियोगेन । 'यस्य- (सू ३११) इति लोपास्पर• त्वादादिवृद्धिः। को ब्रह्मा देवता अस्य कायं हविः । श्रीदेवता अस्य श्रायम् । (१२२८) शुक्राद्धन् २।२६॥ शुक्रियम् । (१२२९) मपोनप्पांनप्तृभ्यां
पपत्रमित्यत आह-त्यज्यमानद्रव्ये उद्देश्यविशेषो देवतेति । हविश्शेषमृत्विग्भ्यो ददाति, विप्राय गां ददाति इत्यादौ ऋत्विग्विप्रादेदेवतात्वव्यावृत्तये विशेषग्रहणम् । त्यज्य. मानहविस्साध्यः अस्मदाद्यप्रत्यक्षः यस्तृप्त्याद्युपकारः तदाश्रयो देवतेति यावत् । मन्त्रस्तुत्या चेति । 'अग्निमीडे पुरोहितम्' इत्यादिमन्त्रेषु यज्ञपुरोहितत्वादिगुणविशि. टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः । ऐन्द्रो मन्त्र इति। इन्द्रस्तुत्यको मन्त्र इत्यर्थः । ननु 'अग्नेयो वै ब्राह्मणो देवतया' इत्यत्र कथं देवतातद्धितः। अत्र अग्ने. हविरुद्देश्यत्वस्य मन्त्रस्तुत्यत्वस्य चाभावादित्यत आह-आग्नेयो वै इति । शैषिकेऽर्थे इति । शेषे इति सूत्रलब्धे तदभिमानिकत्वे गम्ये इत्यर्थः । अग्नि म यो देवता. जातिविशेषो लोकवेदसिद्धः तदभिमानिको ब्राह्मण इति बोधः । कस्येत् । प्रत्ययसन्नियोगेनेति । 'साऽस्य देवता' इति विहिते कशब्दादण्प्रत्यये परे तत्सन्नियोगेन प्रकृते. रिकारोऽन्तादेश इत्यर्थः । तथाच कशब्दादणि प्रकृतेरिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम् । तत्र कि अ इति स्थिते 'यस्येति च इति इकारलाप. माशड्याह-यस्येति लोपात्परत्वादादिवृद्धिरिति । कशब्दस्य विवरणम् ब्रह्मेति । यद्य. प्यत्र इत्त्वविधिबलादेव लोपो न भवतीति भाष्यम् । तथापि वस्तुस्थितिकथनमिः दम् । तस्य प्रयोजनमाह-श्रीदेवता अस्य श्रायं हविरिति । ___ अत्रेदमवधेयम् । 'कस्येत्' इत्यत्र कशब्दस्य अकारान्तस्य षष्ठयेकवचनमित्येक पक्षः। सर्वादिगणपठितस्य किंशब्दस्य षष्ट्येकवचनमिति पक्षान्तरम् । तत्राद्यपक्षे हविःप्रचारे 'कायानुबहि' इति प्रैषः इति निर्विवादम् , सर्वादिगणबहिर्मतत्वेन स्मै. भावासम्भवात्। द्वितीयपक्षे तु किशब्दस्य प्रजापतिनामत्वेन असर्वनामत्वान्न स्मभावः, अन्वर्थसज्ञाबलेन एकार्थवृत्तः सज्ञाशब्दस्य सर्वनामत्वाभावात् । तथाच कायानुब्रूहीत्येव प्रेषः । यद्वा प्रजापतेः सर्वात्मकत्वेन तन्नाम्नः किंशब्दस्य सर्वनामत्वात् 'कस्मा अनुब्रूहि' इत्येव सम्प्रेष इति भाष्ये प्रपञ्चितम् । एवञ्च विष्णुसहस्त्र. नामसु विश्वं विष्णुः इति, ‘एको नैका सवः कः किं यत्तत्पदमनुत्तमम् ।। इति च पठितविश्वादिशब्देष्वप्ययं न्यायस्तुल्यः । तथाच विश्वस्मै नमः, विश्वाय नमः इत्यादि प्रयोज्यमित्यास्तां प्रासङ्गिकम् । शुक्राद्धन्। 'साऽस्य देवता' इत्यथें इति
For Private and Personal Use Only