________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता ।
५४७
-
श्वाहोरात्रः। सर्वा रात्रिः सर्वरात्रः । पूर्व रात्रैः पूर्वरात्रः । स ख्यातरात्रः। पुण्यरात्रः । द्वयो रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः । (७८) राजाहस्सखिभ्यष्टच ५।४।३१॥ एतदन्तात्तत्पुरुषाचस्यात् । परमराजः । अतिराजी । कृष्णसखः । () अह्नष्टखोरेव ६४।१४५॥ एतयोरेव परतो. ऽहष्टिलोप: स्यात् , नान्यत्र । उत्तमाहः । द्वे अहनी मृतो यहोनः क्रतुः । रिति षष्ठीतत्पुरुषः सम्भवतीति वाच्यम् , अहहणं द्वन्द्वार्थमिति भाष्यप्रामाण्येन एवजातीयकतत्पुरुषस्य प्रयोगाभावोन्नयनात् । अहोरात्र इति । द्वन्द्वादच् , इलोपः 'जातिरप्राणिनाम् इत्येकवत्त्वम् । 'स नपुंसकम्' इति बाधित्वा 'रात्राहाहाः पुंसि' इति पुंस्त्वम् । सर्वा रात्रिः सर्वरात्र इति । सर्वा रात्रिरिति विग्रहे 'पूर्वकालैक' इति कर्मधारया अच् इकारलोपः।
'रात्राह' इति पुंस्त्वम् । 'सर्वनाम्नो वृत्तिमात्रे' इति पुवत्त्वम् । एकदेशेत्यर्थग्र. हणमित्यभिप्रेत्योदाहरति-पूर्वमिति । पूर्व रात्रेरिति विग्रहे 'पूर्वापराधरोत्तरम्। इत्येक. देशिसमासः । अच् , इलोपः, 'रात्राह' इति पुंस्त्वम् । सङ्ख्यातरात्र इति । सङ्ख्या. ता रात्रिरिति विग्रहे कर्मधारयः । 'पुंवत्कर्मधारय' इति पुंवत्त्वम् । पुण्यरात्र इति । पुण्या रात्रिरिति विग्रहे कर्मधारयः । 'पुंवत्कर्मधारय' इति पुंवत्त्वम् । अच्, इलोपः । 'रात्रात इति पुंस्त्वम् । द्विरात्रमिति । 'तद्धितार्थ' इति द्विगुः । सङ्ख्यादित्वादच , इलोपः। 'सख्यापूर्व रात्रं क्लीबम्' इति नपुंसकत्वम् । अतिरात्र इति । 'अत्यादयः क्रान्ताद्यर्थे। इति समासः । अव्ययादित्वादच् , इलोपः, 'रात्राह' इति पुंस्त्वम् ।
राजाहस्सखिभ्यष्टच् । 'तत्पुरुषस्याङ्गुले' इत्यतः तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवच. नत्वेन विपरिणतं राजाहस्सखिभ्यः इत्यनेन विशेष्यते । तदन्तविधिः, तदाह-एत. दन्तादिति । परमराज इति । परमश्वासौ राजा चेति विग्रहः। समासान्तष्टच । 'नस्तद्धिते' इति टिलोपः । अतिराज इति । अतिक्रान्तो राजानमिति विग्रहः । 'अत्यादयः। इति समासः । टचि टिलोपः । कृष्णसख इति । कृष्णस्य सखेति विग्रहः । समासान्त. ष्टच । 'यस्येति च' इति इकारलोपः । अष्टखोः। शेषपूरणेन सूत्रं व्याचष्टे-टिलोपः स्यादिति । टेरित्यनुवर्तते, 'अल्लोपोऽनः' इत्यस्मात् लोप इति चेति भावः । 'नस्तद्विते' इत्येव सिद्ध नियमार्थमिदमित्याह-नान्यत्रेति । एवकारस्तु अह्न एव टखोरिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम् । अह्ना निवृत्तम् आह्निकम् 'कालाह' इत्यधिकारे 'तेन निवृत्तम्' इति ठञ् । टिलोपाभावादलोपः। टप्रत्यये उदाहरतिउत्तमाह इति । उत्तमं च तदहश्चेति विशेषणसमासः । 'राजाहस्सखिभ्यष्टच्' इति टच । 'अष्टखोरेव' इति प्रकृतसूत्रेण टिलोपः 'रात्राहाहाः पुंसि' इति पुंस्त्वम् । खे उदाहरति-द्वे अहनी भृत इति । अत्यन्तसंयोगे द्वितीया । भृतः परिक्रीत इत्यर्थः ।
For Private and Personal Use Only