SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १८] बालमनोरमासहिता। ५३१ स्त्रीपुंसलक्षणा'। इभयुवतिः । अग्निस्तोकः । उदश्वित्कतिपयम्। गृष्टिः सकृत्प्रसू. ता' गोगृष्टिः । 'धेनुर्नवप्रसूता', गोधेनुः । 'वशा बन्ध्या', गोवशा। वेहगर्भघातिनी', गोवेहत् । 'बष्कयण्यतरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः। कठाध्यापकः, कठधूतः । (७४७) प्रशंसावचनैश्च २।११६६॥ एतैः सह जातिः प्राग्वत् । गोमतलिका । गोमचचिका । गोप्रकाण्डम् । गवोद्धः। गोतलजः । मदेशीया, नौनजातीया, नौनदेशीया, सुकेशजातीया, सुकेशदेशीया, ब्राह्मणजा. तीया, ब्राह्मणदेशीया। तदेवं 'पुंवत्कर्मधारय' इति सूत्रं निरूप्य 'पोटायुवति' इति सूत्रस्य 'क्रमेणोदा. हरणान्याह- इभपोटेति । पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणा इति । कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिरिति । युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्त्वम् । अग्निस्तोक इति । स्तोकः अल्पः, स चासौ अग्निश्चेति विग्रहः । उदश्वित्कतिपयमिति । 'तक्र ादश्वित्' इत्यमरः । कतिपयं च तद्वदश्विच्चेति कर्मधारयः । गृष्टिः सकृत्प्रसूतेति । कोशवाक्यमिदम् । गोगृष्टिरिति । गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतेति । कोशवाक्यमिदम् । गोधेनुरिति । धेनुश्चासौ गौश्चेति विग्रहः । वशा वन्ध्येति । कोशवाक्यमिदम् । गोवशेति । वशा चासौ गौश्चेति विग्रहः । वेद्गर्भपातिनीति। कोशवाक्यमिदम् । गोवेहदिति । वेहच्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति । 'चिरसूता बष्कयणी' इत्यमरः । तरुणवत्सेत्यपपाठः । गोबष्कयणीति । बष्कयणी चासौ गौश्चेति विग्रहः। कठप्रवक्तेति । प्रवक्ता अध्यापकः, स चासौ कठाचेति विग्रहः । कठाध्यापक इति। अध्यापकश्चासौ कटरचेति विग्रहः। कठधूर्त इति । धूर्तश्चासौ कठश्चेति विग्रहः । 'धूर्तोऽक्षदेवी' इत्यमरः। विट इत्यन्ये । नच 'कुत्सितानि कुत्सनैः' इत्यनेन सिद्धिः शङ्कया, प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः । न हि कठत्वं कुत्सितम्। - प्रशंसावचनैश्च । एतैरिति । रूढया प्रशंसावाचकैरित्यर्थः। जातिरिति । 'पोटायुवति' इत्यतस्तदनुवृत्तेरिति भावः । प्राग्वदिति । समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः । जातेः पूर्वनिपातनियमार्थ सूत्रम् । गोमतल्लिकेति । मतल्लिका चासौ गौश्चेति विग्रहः । गोमचचिंकेति। मचर्चिका चासौ गौश्चेति विग्रहः । गोप्रकाण्डमिति । प्रकाण्ड चासौ गौश्चेति विग्रहः । गवोद्ध इति। उद्धश्चासौ गौश्चेति विग्रहः । अवङ् स्फोटायनस्य' 'आद्गुणः । गोतल्लज इति । तल्लजश्चासौ गौश्चेति विग्रहः । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy