________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३]
बालमनोरमासहिता।
६५
(98) मचोऽन्त्यादि टि १॥२६॥ अचर्चा मध्ये योऽन्त्यः सः आदिर्यस्य तहिसंज्ञं स्यात् । 'शकन्वादिषु पररूपं वाच्यम्' (वा ३६३२)। तच्च टेः । शकन्धुः । ककन्धुः । कुलटा । 'सीमन्तः केशवेशे (वा ३६३३) सीमान्तोऽन्यः। मनीषा । हनीषा । लागलीषा। पतञ्जलिः । 'सारङ्गः पशुपक्षिणोः (ग १३६)। साराशो
अथ कचित् टेः पररूपं विधातुं टिसंज्ञामाह-प्रचोऽन्त्यादि टि। अच इति निर्धारणे षष्ठी । जातावेकवचनम् । अन्ते भवः अन्त्यः, अन्त्यः आदिः यस्य तत् अन्त्यादीति विग्रहः । फलितमाह-प्रचां मध्य इत्यादिना । शकन्ध्वादिष्विति । शकन्ध्वादिषु विषये तत्सिध्यर्थे पूर्वपरयोः पररूपं वक्तव्यमित्यर्थः । ततश्च शकादिशब्दानां टेरचि परे टेवच परस्यावश्च स्थाने पररूपमेकादेश इत्याल्लभ्यते । आदित्यनुवृत्तौ शकन्ध्वादिगणे सीमन्त इत्यादिकतिपयरूपाणामसिद्धः । तदाह-तच्च टेरिति । शकन्ध्यादिगणं पठति-शकन्धुरित्यादिना । शकानां देशविशेषाणाम् अन्धुः कृप इति विग्रहः । शक अन्धु इति स्थिते सवर्णदीले प्राप्ते अनेन पररूपम् । अत्र शकशब्दे द्वावची । तत्र अन्त्यः अच् ककारादकारः, तदादिः अकार एव, 'आद्यन्तवदेकस्मिन् ' इति वचनात् । एवमग्रेऽपि द्रष्टव्यम् । कर्कन्धुरिति । कर्काणां राज्ञाम् अन्धुरिति विग्रहः । कर्क अन्धुः इति स्थिते पररूपम् । कुलटेति । अट गतौ । पचायच् । टाप् कुलानां अटेति विग्रहः । भिक्षार्थ व्यभिचा. रार्थ वा या गृहानटति सा कुलटा । कुलान्यटतीति विग्रहे तु कर्मण्यणि टिड्ढाणमिति डीप स्यात् । कुल अटेति स्थिते पररूपम् । सीमन्तः केशवेशे इति । गणान्तर्गतवार्तिकमेतत् । केशानां वेशः सन्निवेशविशेषः । तस्मिन् गम्ये सीमनशब्दस्य टेरन इत्यस्य अन्तशब्दस्यावर्णस्य च स्थाने पररूपमित्यर्थः । आदित्यनुवृत्तौ तु इदं न सिध्येत् । सीमान्तोऽन्य इति । ग्रामान्तप्रदेशः इत्यर्थः। मनीघेति । मनस ईषेति विग्रहः । अत्र अस् इति टेः ईकारस्य च स्थाने पररूपमीकारः । इष गतौ । 'गुरोश्च हल' इत्यप्रत्ययः । टाप् । 'बुद्धिर्मनीषा इत्यमरः । हलीषेति । 'ईषा लागलदण्डः स्यात्' इत्यमरः । हलस्य ईषेति विग्रहः। करिकलभ इतिवत् पुनरुक्तिः समाधेया । अत्र गुणे प्राप्ते पररूपम् । एवं लागलीषेत्यत्रापि । पतन्जलिरिति । पतन् अञ्जलिर्यस्मिन्नमस्कार्यत्वादिति विग्रहः । अत्र अत् इति टे अकारस्य च स्थाने पररूपमकारः। केचित्त, गोनदाख्यदेशे कस्यचिदृषेः सन्ध्योपासनसमये अञ्जलेनिर्गत इत्यैतिह्यात् अञ्जलेः पतन्निति विगृह्णन्ति । मयूरव्यंसकादित्वात् समासः । सारङ्गः पशुपक्षिणोरिति । इदमपि गणान्तर्गतं वार्तिकम् । भाष्ये तु न दृश्यते। मारशब्द उत्कृष्टे । 'सारो बले स्थिरांशे च न्याय्ये क्लीवेऽम्बरे त्रिषु इत्यमरः।
५ बा०
For Private and Personal Use Only