SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० सिद्धान्तकौमुदी [तद्धिते प्रागिवीय 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्यः' (वा ३२९९ ) देवदत्तः-दत्तःदेवः । सत्यभामा-मामा-सत्या। 'उवर्णा इलस्य च (वा ३३०३)। भानुः दत्तः-भानुलः । 'ऋवर्णादपि ( वा ५०५४ ) । सवित्रियः । सवितृलः । 'चतुर्थादनजादौ वा लोपः पूर्वपदस्य च । अपत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥' ( वा ३२९६-३३००)॥ (२०३६) प्राचामुपोदेरडज्युचौ च ५। ३।८० ॥ उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच वुच् एतौ स्तः। चाद्यथाप्राप्तम् । प्राचाग्रहणं पूजार्थम् । अनुकम्पितः उपेन्द्रदत्तः उपडः-उपक:-उपियःउपिल:-उपिकः-उपेन्द्रदत्तकः । षड्पाणि । (२०३७) जातिनाम्नः कन् ५।३।८१॥ मनुष्यनाम्नः इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कनस्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः । 'द्वितीयं सन्ध्यक्ष पूर्वथदस्य चेति । विभाषेति शेषः । अनजादाविति तु नात्र सम्बध्यते । तदाह-दत्तिक इत्यादि । ठचि घनि इलचि के च रूपम् । अप्रत्यये तथैवेष्ट इति वातिकमागं व्याचष्टेविनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य इति । दत्तः देव इति । देवदत्तशब्दात् ठाजा. दिप्रत्ययस्याप्यभावे पूर्वोत्तरपदयोः क्रमेण लोपे रूपम् । उवर्णादिति । ल इति लोपस्य पूर्वाचार्यसञ्ज्ञा । उवर्णात्परस्य इलचो लोप: स्यादित्यर्थः । 'आदेः परस्य' इति इका. रस्य लोपः । चकारेण ठाजादौ द्वितीयादच ऊर्ध्व लोपः सूत्रसिद्धः अनूद्यते । ऋवर्णाद. पीति । ऋवर्णादपि परस्य इलच आदेर्लोप: स्यादित्यर्थः। सबित्रियः सवितृन इति । धनि इलचि च रूपम् । वस्तुतस्तु ऋवर्णादपीति भाष्यादृष्टत्वादुपेक्ष्यम् । तदेवं व्या. ख्यातं बार्तिके समस्तं पठति-चतुर्थादित्यादि। प्राचामुपादेरडज्वुचौ च । पूर्व विषये इति । 'बह्वचो मनुष्यनाम्नः' इति सूत्रविषये इत्यर्थः। चाधथाप्राप्तमिति । ठच् , धन इलच्चेत्यर्थः। ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धे प्राचांग्रहणं व्यर्थमित्यत आह-प्राचांग्रहणमिति । उपड इति । उपेन्द्रदत्तशब्दात् अडचि द्वितीयं सन्ध्यक्षरमिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् । 'नेन्द्रस्य परस्या इति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारा. दिलोप इति शब्देन्दुशेखरे । उपक इति । वुचि अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम् । ठाजाद्यभावाल्लोपोन। जातिनाम्नः कन् । जातिशग्दो य इति । यः जातिप्रवृत्तिनिमित्तकः प्रसिद्धः सन् मनुष्यनामधेयभूतः स इत्यर्थः । 'अनुकम्पायाम् इति 'नीतौ इति च सूत्रद्वयविहितस्यापवादः । द्वितीयं सन्ध्यक्षरं चेदिति । 'एचः For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy