________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७७
सिद्धान्तकौमुदी
[तद्धिते शैषिक
-
४।३।१०४ ॥ कलाप्यन्तेवासिभ्यः-हरिगुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पा. यनान्तेवामिभ्यः-आलम्बिनः । (१४८५) पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ४।३।१०५ ॥ तृतीयान्तात्प्रोक्तार्थे णिनिः , स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेब्राह्मण. कल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिता, पैङ्गी करूपः। पुराण-इति किम् । याज्ञ.
कलापि । तेन प्रोक्तमित्येव । कलापिशिष्यवाचिभ्यो वैशम्पायनशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्य इति । उदाहियत इति शेषः । हारिद्रविण इति । हरिदुर्नाम कलापिनः शिष्यः । ततः प्रोक्त णिनिः, मोर्गुणः, आदिवुद्धिः। हारिद्रवि. शब्दादध्येत्रणः 'प्रोक्ताल्लुक्' इति लुगिति भावः । हरिद्रुः, छगली, तुम्बुरुः, उलपः इति चत्वारः कलापिशिष्याः। तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते । औलपिनः । वैशम्पायनान्तेवासिन्य इति । उदाहियत इति शेषः । पालम्बिन इति । आलम्बि , कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्डयः, श्यामायनः, कठः, कलापी इति नव वैशम्पायनशिष्याः। तत्र आलम्बिशब्दात् अध्येत्रणः प्रोक्ते णिनिः । आलम्बिन्शब्दादध्येत्रणः 'प्रोक्ताल्लुक्' इति लक । आलम्बिनः कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः । अत्र 'आपत्यस्य' इति यलोपः । श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण। वक्ष्यते वैशम्पायनशिष्यः कलापी । तथाच कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथरग्रहणात् । तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम् ।
पुराणप्रोक्तेषु । 'तेन प्रोक्तम्' इति 'गिनिः' इति चानुवर्तते । मन्त्रव्यतिरिक्त. दभागा ब्राह्मणानि । बोधायनादिकल्पसूत्राणि कल्पाः। तथाभूतेषु पुरातनमुनि. प्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताणिनिः स्यादित्यर्थः । तदाह-तृतीयान्तादिति । यत्प्रोक्तमिति । सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिपोक्त. ब्राह्मणकल्पात्मकं चेदिति यावत् । पुराणप्रोक्तमित्येतद्व्याचष्टे-पुराणेनेति । ब्राह्मणे उदाहरति-भल्लु, भाल्लविनः इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्तान् ब्राह्मणभागानधीयते इत्यर्थे प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि भाल्लविन इति रूपमिति भावः । ब्राह्मणे उदाहरणान्तरमाह-शाट्यायन, शाट्यायनिन इति । शाट्यायनेति प्रकृतिनिर्देशः । शाट्यायनेन पुरातनमुनिना प्रोक्तान् ब्राह्मणभागान् अधीयते इत्यर्थे प्रोक्तार्थणिनिप्रत्यये शाट्यायनिन्शब्दादध्येत्रणो लुकि शाट्यायनिन इति रूपमित्यर्थः। कल्पे इति । उदाहियत इति शेषः । पिङ्ग-पङ्गी कल्प इति । पिङ्गेति प्रकृतनिर्देशः । पिङ्गन पुरातनमुनिना प्रोक्त इत्यर्थे जिनौ रूपम् । 'छन्दोब्राह्मणानि च तद्विषयाणि' इत्यध्येतृप्रत्ययान्तत्वनियमस्तु कल्पषु न सर्वत्र
For Private and Personal Use Only