________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अजन्तपुंलिश
सुसखा । सुसखायौ। सुसखायः । अनजिद्भावयोराजत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपवाभावात् 'असखि' (सू २४३ ) इति निषेधाप्रत्तेघिसंज्ञा । सुसखिना । सुसखये। उसिकसोर्गुणे कृते कृतयणादेशस्वाभावात् ‘ख्यत्यात्-' (सू २५५) इत्युत्त्वं न । सुसखेः । सुसखावित्यादि । एवमतिशयितः सखा अतिसखा । 'परमः सखा यस्य' इति विग्रहे परमसखा परमसखायौ इत्यादि । गौणत्वे. सख्यौ इति । डेरौत्त्वे यणि रूपमिति भावः ।
सुसखेति । प्रादिसमासः । 'राजाहस्सखिभ्यष्टच्' इति टच तु न भवति, 'न पूजा नात्' इति निषेधात् । अनङ् सौ, उपधादीर्घः हल्ल्यादिलोपः, 'न लोपः' इति नकारलोपः इति भावः। सुसखायौ सुसखाय इति । णिद्वद्भावो वृद्धिः आयादेश इति भावः । नन्वनक्षणिद्वत्त्वे सखिशब्दस्य विधीयमाने कथं सुसखिशब्दे स्यातामिल्यत आहअनङ इत्यादि । अङ्गाधिकारस्थतया 'पदाङ्गाधिकारे' इति परिभाषया सखिशब्दा. न्तेऽपि प्रवृत्तिरित्यर्थः । नन्वेवं सति सुसखिशब्दे असखि इति पर्युदासात् घित्वाभावे नात्वादि न स्यादित्यत आह-समुदायस्येति । नच सुसखिशब्दस्य सखिशब्दरूपत्वा. भावेऽपि सखिशब्दान्तत्वादसखीति पर्युदासोऽपि दुर्निवार इति वाच्यम् । 'शेषो ध्यसखि' इत्यस्य पदाङ्गाधिकारस्थत्वाभावादिति भावः । सुसखिनेति । घित्वानात्वे रूपम् । सुसखये इति । 'धेडिति' इति गुणे अयादेशः । इसीति । ङसिङसोः 'धेडिति' इति गुणे कृते 'ख्यत्यात्' इत्युत्त्वं नेत्यन्वयः । कुत इत्यत आह-कृतयणादेशत्वाभादिति । 'ख्यत्यात्' इत्यत्र कृतयणादेशनिदेशेन यत्र यणादेशप्रवृत्तिस्तत्रैवोत्त्वप्रवृत्तेरिति भावः। सुसखेरिति । ङसिङसोरेतद्रपम् । सुसखाविति। 'अच्च घे." इत्यौत्वम् । एवमिति । सुसखिशब्दवदित्यर्थः । अतिसखेति । प्रादिसमासः 'न पूजनात्! इति न टच् । . वस्तुतस्तु उदाहृते सुसखिशब्दे अतिसखिशब्दे च घिसंज्ञा न भवत्येव । 'शेषो ध्यसखि' इत्यत्र हि असखीति शेषविशेषणम् । तदन्तविधिः । सखिशब्दान्तभिन्नः शेषो घिसंज्ञक इति लभ्यते । अत एव 'यस्येति च' इति सूत्रे ईकारे परतः इकारलोपे किमुदाहरणम् । सखीत्यत्र 'सख्यशिश्वीति भाषायाम्' इति डीषि इकारलोपः। न च सवर्णदीघेण निर्वाहः शङ्कयः । सखोमतिक्रान्तः अतिसखिः । प्रादिसमासः । 'गोस्त्रियोः' इति हस्वः । अतिसखेरागच्छति इत्यत्र इकारलोपाभावात् सवर्णदी तस्य एकादेशस्य पूर्वान्ततया सखिग्रहणेन ग्रहणात् असखीति पर्युदासे घिसंज्ञाप्रति. षेधापत्तेः । इकारलोपे तु सति डोषो हस्वत्वे कृते नायं सखिशब्दः । डीपस्तदवयवत्वाभावात् इति भाष्य सङ्गच्छते इति शब्देन्दुशेखरे प्रपञ्चितम् । परमसखेति । बहुवीहित्वात्तत्पुरुषत्वाभावान्न टच । ननु बहुवीहौ सखिशब्दस्य गौणत्वात् कथम
For Private and Personal Use Only