________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४४
सिद्धान्तकौमुदी
[ अजन्तपुंलिङ्ग -
सर्वषत् । एकशब्दः संख्यायां नित्यैकवचनान्तः । (२२२) न बहुव्रीहो १। १२६॥ बहुव्रीहौ चिकीर्षिते सर्वनामसंज्ञा न स्यात् । स्वकं पिता यस्य स स्वत्कपितृकः । अहकं पिता यस्य सः मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथा लौकिकविप्रहवाक्य इव तत्राप्यकच्प्रवर्तेत ।
1
स्यादेतत् । त्वत्कपितृकः मत्कपितृक इति बहुब्रीहिः । त्वकं पिता यस्य, अहक पिता यस्येति लौकिक विग्रहवाक्यम् । लौकिकत्वं प्रयोगार्हत्वम् । युष्मदस्मदोरज्ञाताद्यर्थे 'अव्ययसर्वनाम्ना' मित्यकचि युष्मक स्, अस्मक स इति स्थिते, 'के प्रथमयो:' इत्यमि 'स्वाहौ सौ' इति त्वादेशे अहादेशे च सति 'शेषे लोपः' इति लोपे, अतो गुणे, अमि पूर्वे च त्वकम् अहकम् इति रूपम् । युष्मद् सू, पितृ स्, अस्मद् स्, पितृ स्, इत्यलौकिकं विग्रहवाक्यम् । प्रयोगानईत्वम् अलौकिकत्वम् इति स्थितिः । तत्र त्वत्कपितृको मत्कपितृक इति बहुवीहिदशायां कप्रत्ययो न सम्भवति । युष्मदस्मदोः सर्वनामत्वेनाकच्प्रसङ्गात् । तत्रेदमारभ्यते न बहुव्रीहौ । सर्वादीनि सर्वनामानीत्यनुवर्तते । बहुवीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थः प्रतीयते । एवं सति सूत्रमिदं व्यर्थम्, प्रियसर्वायेत्यादीनां बहुवीहिवर्तिनां सर्वादीनां स्वार्थीपसङ्क्रान्तार्थान्तरप्रधानकतया उपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धेः, 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इति वक्ष्यमाणत्वात् । अतो व्याचष्टे - बहुव्रीहौ चिकीति इति । बहुवीहाविति विषयसप्तम्याश्रयणात् अयमर्थो लभ्यते । तथाच बहुव्रीहौ प्रसक्ते सति ततः प्रागेव विग्रहवाक्येऽयं निषेधोऽर्थवान् । एकार्थीभावात्मकसामर्थ्यस्य समासदशायामेव सत्त्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याभावादिति भावः । अथ लौकिकविग्रहवाक्यं दर्शयन्, लक्ष्यभूतं बहुव्रीहिं दर्शयति-त्वकं पितेत्यादिना । सर्वनामत्वाभावात् कप्रत्यये 'प्रत्ययोत्तरपदयोरच' इति त्वमादेशे त्वत्कः मत्कः इति च रूपम् । ननु बहुव्रीहिप्रवृत्तेः प्राक् अलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात् त्वकं पितेति कथं लौकिकविग्रहवाक्यप्रदर्शनमित्यत आह- इहेति । न बहुव्रीहावित्यस्मिन् सूत्र इत्यर्थः । प्रक्रियावाक्य इति । युष्मद् स् पितृ स्, अस्मद् स पितृस, इत्यलौकिक विग्रहवाक्य एवेत्यर्थः । लौकिकविग्रहवाक्ये तु नायं निषेधः, बहुव्रीहिवत्तस्य स्वायें परिनिष्ठितत्वेन स्वतन्त्रप्रयोगार्हतया बहुवीहेस्तत्र चिकीर्षितत्वाभावात्, अलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात् । यथा चैतत्तथा समासनिरूपणे वक्ष्यते । ननु अलौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेधः, को दोषः । तत्राह - अन्यथेति । न बहुवीहावित्यलौकिकविग्रहवाक्ये निषेधाभावे सतीत्यर्थः । तत्रापीति । अलौकिकविग्रहवाक्येऽपीत्यर्थः । नन्वलौकिक विग्रहवाक्ये भव
।
For Private and Personal Use Only