________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २० ]
बालमनोरमासहिता।
६०३
रणार्थेभ्यः परे निष्ठासप्तम्यौ' (वा १४२५) । अस्युद्यतः। दण्डपाणिः । क्वचिन्न । विवृत्तासिः।
इति बहुव्रीहिसमासप्रकरणम् ।
अथ द्वन्द्वसमासप्रकरणम् ॥ २०॥ (६०१) चार्थे द्वन्द्वः २।२।२९॥ अनेक सुबन्तं चार्थे वर्तमानं वा समस्यते, स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्वार्थाः। परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः । अन्यतरस्यानुषङ्गिकत्वेऽन्याचयः। मिलितानामन्वये इत.
संस्कृताः अग्नयः येनेति विग्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति-अस्युद्यत इति । असिः उद्यतो येनेति विग्रहः । सप्तम्या उदाहरति-दण्ड. पाणिरिति । दण्डः पाणौ यस्षेति विग्रहः । 'निष्ठा' इत्यस्य 'सप्तमीविशेषणे' इत्यस्य चायमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः कोशान्निष्कासितः असियेनेति विग्रहः। एवञ्जातीयान्याहिताग्नशादित्वकल्पनया समाधेयानीत्याहुः। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
वालमनोरमायां बहुव्रीहिसमासनिरूपणम् ।
अथ द्वन्द्वसमासनिरूपणम् -चार्थे द्वन्द्वः। 'सुबामन्त्रिते' इत्यतः सुबिति, 'अनेकमन्यपदार्थे' इत्यतः अनेकमिति चानुवर्तते । समास इति विभाषा इति चाधिक. तम् । तदाह-अनेकमित्यादिना। कश्चार्थ इत्यत आह-समुच्चयेति । 'चान्वाचयस. माहारेतरेतरसमुच्चये' इत्यमरः। तत्र समुच्चयं निर्वक्ति-परस्परेति । एकस्मिन्निति । एकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रयममन्वयः, तदनन्तरम. न्यस्यान्वयो यत्र, तत्र समुच्चयः चार्थ इत्यर्थः । यथा-ईश्वर गुरुच भजस्व इति । तत्र हि चशब्दयोगात् गुरोः ईश्वरसापेक्षत्वम् , न त्वीश्वरस्य गुरुसापेक्षत्वम् , तस्य चकारयोगाभावात् । अत एवात्र एक एव चशब्दः प्रयुज्यते । एवञ्च ईश्वरं च भजस्व गुरुं च भजस्व इति वाक्यद्वयं पर्यवस्यति । अथान्वाचर्य लक्षयति-अन्यतरस्येति। यत्रान्यतरस्य पदस्यैकस्मिन् क्रियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्तिविषयत्वेनान्वयः, इतरस्य तु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च तत्रान्वाचयश्चार्थ इत्यर्थः ।
For Private and Personal Use Only