________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अपत्याधिकार
-
'गोत्रे स्वैकोनसङ्खयाना प्रत्ययानां परम्परा। क्षिते उपगोरण औपगवादिजिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात्। तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमि प्रत्ययमण्प्रत्ययो घटयतीति सोऽप्यनिष्ट एव । तथाच तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादि. त्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते । सच वस्तुतः अणेव, न त्विज् , अदन्तत्वाभावात् , विहिते च तस्मिन् औपगवादिनपि निवर्तते, गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः । अतः प्रत्ययद्वयमाला निवर्तते । एवमुपगोश्चतुर्थे विवक्षिते तस्य उपगुं तत्पुत्रं च प्रत्यपत्यत्वाभावात् पौत्रं प्रत्येवापत्यत्वादोपगवि. सन्दात् 'यजिनोश्च' इति फकि प्रकृतित्रयादनिष्टा औपगवायन इति प्रत्ययत्रयमाला स्यात्। उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिनि औपगवायनिः इत्येवं प्रकृतिचतुष्टायात् प्रत्ययचतुष्टयमाला स्यात् । षष्ठे तु औपगवायनिशब्दात् फकि
औपगवायनायन इत्येवं प्रकृतिपञ्चकात् पञ्च प्रत्ययाः स्युः। तदेवं फगिजोः परम्प. राणां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतम. निष्टप्रत्ययाः स्युः। ___ अत्र तृतीयप्रभृति कस्मिंश्चिद्वोत्रे विवक्षिते उपगुं प्रत्यनपत्येऽपि तस्मिन् ‘एको गोत्रे' इत्यणेव भवति, नतु इजादि। यदा त्वपत्यशब्दः पुत्रपौत्रादिसाधारणः तदा यद्यपि उपगोरनन्तरापत्ये पुत्रे इव पौत्रादिष्वपि विवक्षितेषु 'तस्यापत्यम्' इत्यणि औपगव इतीष्टं सिध्यति । तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्त. रापत्ये उपगोस्तृतीये विवक्षिते द्वितीयस्मादेकः प्रत्ययः अनिष्टः प्रसज्येत । एवमुप. गोश्चतुर्थे विवक्षिते सिधेऽपि उपगोरणि औवगवे, तस्मादिभि औपगविः, तस्मात्फकि औपगवायना, इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत । तत्रापि उपगोमूलप्रकृतेरणिष्ट एव । इन्फको तु प्रत्ययावनिष्टौ । तथा उपगोश्चतुर्थे विवक्षिते द्वितीयस्मादेकः अनिष्ट. प्रत्ययः तृतीयस्मादन्य इत्येवं प्रकृतिद्वयादनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति । एवं पञ्चमे प्रकृतित्रया प्रयः प्रत्ययाः। षष्ठे प्रकृतिचतुष्टयात् चत्वारः प्रत्ययाः इत्येवं मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनिष्टप्रत्ययाः स्युः तत्र ‘एको गोत्रे इति नियमविधिः । गोत्रे एक एव प्रत्ययः स्थादिति। तत्रापि प्रथमातिक्रमे कारणाभावान्मूलप्र. कृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति । सूने एकशब्दः प्रथमपर्यायः । 'एके मुख्यान्यकेवलाः' इत्यमरः । मुखे भवो मुख्यः प्रथमः । 'एकोऽन्याथें प्रधाने च प्रथमे केवले तथा । इति कोशान्तरम् । तथाच मूलप्रकृतेरेव गोन्ने विवक्षिते स्वयोग्यप्रत्य. यलाभ इति व्याख्यान्तरम् । गोने एकः प्रथमः एवशब्दः प्रत्ययोत्पादक इति ।
तदेतत्सर्वे श्लोकद्वयेन सगृहाति-गोत्रे स्वैकोनेति । अत्र प्रथमश्लोकान्ते श्रुतं
For Private and Personal Use Only